तस्य च सर्वात्मत्वेनाऽऽत्मवत्तत्कार्यत्वव्याघातादिति मन्वानः सन् प्रथमप्रकरणार्थं प्रागुक्तमाक्षिपति –
कथमिति ।
न वयमनुमानावष्टम्भादोङ्कारनिर्णयमात्मप्रतिपत्त्युपायमभ्युपगच्छामो येन व्याप्त्यभावो दोषमावहेत् ।
किं तु श्रुतिप्रामाण्यात्तन्निर्णयस्तद्धीहेतुरिति परिहरति –
उच्यत इति ।
तत्र मृत्युना नचिकेतसं प्रत्योमित्येतदित्यनेन वाक्येन ब्रह्मत्वेनोमित्येतदुपदिष्टम् । समाहितेनोङ्कारोच्चारणे यच्चैतन्यं स्फुरति तदोङ्कारसामीप्यादेव शाखाचन्द्रन्यायेनोङ्कारशब्देन लक्ष्यते ।
येन लक्षणयोङ्कारनिर्णयो ब्रह्मधीहेतुरिति विवक्षित्वा श्रुतिमुदाहरति –
ओमित्येतदिति ।
प्रतिमायां विष्णुबुद्धिवदोङ्कारो ब्रह्मबुद्ध्योपस्यमानो ब्रह्मप्रतिपत्त्युपायो भवतीत्यभिप्रेत्य वाक्यान्तरं पठति –
एतदालम्बनमिति ।
किं चायमोङ्कारो यदा परापरब्रह्मदृष्ट्योपास्यते तदा तज्ज्ञानोपायतामुपारोहतीति मत्वा पुनः श्रुतिम प्रदर्शयति –
एतद्वा इति ।
किं च समाधिनिष्ठो यदा ओमित्युच्चार्याऽऽत्मानमनुसंधत्ते तदा स्थूलमकारमुकारे सूक्ष्मे तं च कारणे मकारे तमपि कार्यकारणातीते प्रत्यगात्मन्युपसंहृत्य तन्निष्ठो भवतीत्यनेन प्रकारेणोङ्कारस्य तत्प्रतिपत्त्युपायतेति विधान्तरेणाऽऽह –
ओमित्यात्मानमिति ।
किं च योऽयं स्थाणुः स पुमानितिवद्यदेतदोमित्युच्यते तद्ब्रह्मेति बाधायां सामानाधिकरण्येन समाहितो ब्रह्म बोध्यते ।
तथा च युक्तमोङ्कारस्य ब्रह्मज्ञानहेतुत्वमित्याह –
ओमिति ब्रह्मेति ।
किं च सर्वास्पदत्वादोङ्कारस्य ब्रह्मणश्च तथात्वादेकलक्षणत्वादन्यत्वासिद्धेरोङ्कारप्रतिपत्तिर्ब्रह्मप्रतिपत्तरेवेत्याह –
ओङ्कार एवेति ।
‘ओमितीदं सर्वम्’(तै. उ. १ । ८ । १) इत्यादिवाक्यान्तरसंग्रहार्थमादिपदमित्यादिश्रुतिभ्यो ब्रह्मप्रतिपत्त्युपायत्वमोङ्कारस्य प्रमितमिति शेषः ।
ननु स्वानुगतप्रतिभासे सन्मात्रे चिदात्मनि प्राणादिविकल्पस्य कल्पितत्वादात्मनः सर्वास्पदत्वं, न पुनरोङ्कारस्य तदस्त्यननुगमादिति, तत्राऽऽह –
रज्ज्वादिरिवेति ।
यथा रज्जुः शुक्तिरित्यादिरधिष्ठानविशेषः सर्पो रजतमित्यादिविकल्पस्याऽऽस्पदोऽभ्युपगम्यते यथैष दृष्टान्तस्तथैव प्राणादिरात्मविकल्पो यस्तद्विषयः सर्वो वाक्प्रपञ्चो यथोक्तोङ्कारमात्रात्मकस्तदास्पदो गम्यते । न च जगत्योङ्कारस्याननुगमः । ओङ्कारेण सर्वा वाक् संतृण्णेति श्रुतेः । अतो युक्तमोङ्कारस्य सर्वास्पदत्वमित्यर्थः ।
नन्वर्थजातस्याऽऽत्मास्पदत्वादोङ्कारास्पदत्वाच्च वाक्प्रपञ्चस्य प्राप्तमास्पदद्वयत्वमिति, नेत्याह –
स चेति ।
आत्मवाचकत्वेऽपि नास्त्योङ्कारस्याऽऽत्ममात्रत्वं तद्वाचकस्य तन्मात्रत्वमिति व्याप्त्यभावात्, प्राणादेरात्मविकल्पस्याभिधानव्यतिरेकदर्शनादित्याशङ्क्याह –
ओङ्कारेति ।
तस्य विकारः सर्वो वाग्विशेषः, ‘अकारो वै सर्वा वाक्’(ऐ. आ. २ । ३ । ७) इति श्रुतेः, ओङ्कारस्य च तत्प्रधानत्वात्, तेन प्राणादिशब्देन वाच्यः प्रणादिरात्मविकल्पः सर्वः स्वाभिधानव्यतिरेकेण नास्ति; तच्चाभिधानं प्राणादिशब्दविशेषात्मकमोङ्कारविकापभूतमोङ्कारातिरेकेण न सम्भवतीत्योङ्कारमात्रं सर्वमिति निश्चीयते । आत्मनोऽपि तद्वाच्यस्य तन्मात्रत्वाभिधानादित्यर्थः ।
शब्दातिरिक्तार्थाभावे शब्दस्यार्थवाचकत्वानुपपत्तेरेकत्र विषयविषयित्वायोगान्निर्विकल्पं सन्मात्रं वस्तु वाच्यवाचकविभागशून्यं पर्यवस्यतीत्यभिप्रेत्य कार्यस्य वस्तुतोऽसत्वे प्रमाणमाह –
वाचारम्भणमिति ।
कार्यस्य सर्वस्यैवं मिथ्यात्वेऽपि कथमोङ्कारनिर्णयस्य ब्रह्मप्रतिपत्त्युपायत्वसिद्धिरित्याशङ्क्याऽऽह –
तदस्येति ।
तदिदं विकारजातमस्य ब्रह्मणः सम्बन्धि वाचा सामान्यरूपया तन्त्या प्रसारितरज्जुतुल्यया सितं बद्धं व्याप्तमिति सम्बन्धः ।
शब्दसामान्येनार्थसामान्यस्य व्याप्तावपि कथमर्थविशेषस्य शब्दविशेषव्याप्तिरित्याशङ्कयाऽऽह –
नामभिरिति ।
शब्दविशेषैर्दामभिर्दामस्थानीयैर्विशेषरूपमपीदमर्थजातं व्याप्तं वक्तव्यं न्यासस्य तुल्यत्वादित्यर्थः ।
उक्तमर्थं समर्थयते –
सर्वं हीति ।
इदं हि सर्वं सामान्यविशेषात्मकमर्थजातं सामान्यरूपेण नाम्ना नीयते व्यवहारपथं प्राप्यते तेन नामनीत्युच्यते । तदेवं वागनुरक्तबुद्धिबोध्यत्वाद्वाङ्मात्रं सर्वम् । वाग्जातं च सर्वमोङ्कारानुविद्धत्वादोङ्कारमात्रम् । स चोङ्कारो लक्षणादिनाऽऽत्मधीहेतुरित्याद्यप्रकरणारम्भः सम्भवतीत्यर्थः । ‘तद्यथा शङ्कुना’(छा. उ. २ । २३ । ३) इतिश्रुतिसंग्रहार्थमादिपदम् । प्रतिज्ञातप्रथमप्रकरणार्थसिद्धिरिति शेषः ।
अर्थमुपपाद्य तस्मिन्नर्थे श्रुतिमवतारयति –
अत आहेति ।
श्रुतिं व्याचष्टे –
यदिदमिति ।
तदिदं सर्वमोङ्कार एवेति सम्बन्धः ।
अभिधानस्याभिधेयतया व्यपस्थितमर्थजातमोङ्कार एवेत्यत्र हेतुमाह –
तस्येति ।
तथाऽपि पृथगभिधानभेदः स्थास्यति, नेत्याह –
अभिधानस्येति ।
वाच्यं वाचकं च सर्वमोङ्कारमात्रमित्यभ्युपगमेऽपि परं ब्रह्म पथगेव स्थास्यतीत्याशङ्क्याऽऽह –
परं चेति ।
यद्धि परं कारणं ब्रह्म तच्चेदमवगम्यते तदा किञ्चिदभिधानं तेनेदमभिधेयमित्येवमात्मकोपायपूर्वकमेव तदधिगमोऽभिधेयं च स्वाभिधानाव्यतिरिक्तं तत्पुनरोङ्कारमात्रमित्युक्तत्वाद्वाच्यं ब्रह्मापि वाचकाभिन्नं तन्मात्रमेव भविष्यति । यत्र तु कार्यकारणातीते चिन्मात्रे वाच्यवाचकविभागो व्यावर्तते तत्र नास्त्योङ्कारमात्रत्वमोङ्कारेण लक्षणया तदगमाङ्गीकारादित्यर्थः ।
तस्येत्यादिश्रुतिमवतार्य व्याकरोति –
तस्येति ।
भूतमित्यादिश्रुतिं गृहीत्वा व्याचष्टे –
कालेति ।
वाच्यस्य वाचकाभेदात्तस्य चोङ्कारमात्रत्वादित्युक्तो न्यायः ।
कालत्रयातीतमोङ्कारातिरिक्तं जडं वस्तु नास्त्येवं प्रमाणाभावादित्याशङ्क्याऽऽह –
कार्याधिगम्यमिति ।
अव्याकृतं साभासमज्ञानमनिर्वाच्यं, तन्न कालेन परिच्छिद्यते कालं प्रत्यपि कारणत्वात् । कार्यस्य कारणात्पश्चाद्भाविनो न प्राग्भाविकारणपरिच्छेदकत्वं सङ्गच्छते । सूत्रमादिपदेन गृह्यते तदपि न कालेन परिच्छेत्तुं शक्यते । “स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस”(श.ब्रा. १०।६।५।४) इति सूत्रात्कालोत्पत्तिश्रुतेः । तदपि सर्वमोङ्कारमात्रं वाच्यस्य वाचकाव्यतिरेकन्यायादित्यर्थः ॥१॥