अभिधानाभिधेययोरेकस्मिन्नेव सति कल्पितत्वेन तदेकरूपत्वस्योक्तत्वात्किमिति पुनः ‘सर्वं ह्येतद् ब्रह्म’(मा.उ. १। २) इत्युच्यते । तत्र वृत्तानुवादपूर्वकमुत्तरवाक्यस्य सफलं तात्पर्यमाह –
अभिधानेत्यादिना ।
वाच्यस्य वाचकत्वोक्त्यैव तयोरेकत्वसिद्धेर्व्यतिहारनिर्देशो वृथेत्याशङ्क्याऽऽह –
इतरथेति ।
वाच्येन वाचकस्यैक्यमनुक्त्वा वाचकेनैव वाच्यस्यैक्यवचने सत्युपायोपेयप्रयुक्तमेकत्वं, न मुख्यमैक्यमित्याशङ्क्येत, तन्निवृत्त्यर्थं व्यतिहारवचनमर्थवदित्यर्थः ।
परस्पराभेदोपदेशादभिधानाभिधेययोरेकत्वप्रतिपत्तिरस्तु, साऽपि विफला ब्रह्मप्रतिपत्त्यनुपयोगित्वादित्याशङ्क्याऽऽह –
एकत्वेति ।
अभिधानाभिधेययोरेकत्वप्रतिपत्तेश्चेदं प्रयोजनं यदेकेनैव प्रयत्नेन द्वयमपि विलापयन्नुभयविलक्षणं ब्रह्म प्रतिपद्य निर्वृणोतीति योजना ।
अभिधानाभिधेययोर्व्यतिहारोपदेशे वाक्यशेषमनुकूलयति –
तथा चेति ।
उक्ते वाचकस्य वाच्याभिन्नत्वे वाक्यमवतार्य योजयति –
तदाहेति ।
सर्वं कार्यं कारणं चेत्यर्थः ।
ब्रह्मणः श्रुत्युपदिष्टस्य परोक्षत्वं व्यावर्तयति –
तच्चेति ।
यद्ब्रह्म श्रुत्या सर्वात्मकमुक्तं तन्न परोक्षमिति मन्तव्यं किं त्वयमात्मेति योजना । चतुष्पात्त्वेन विश्वतैजसप्राज्ञतुरीयत्वेनेत्यर्थः । अभिनयो नाम विवक्षितार्थप्रतिपत्त्यर्थमसाधारणः शारीरो व्यापारः, तेन हस्ताग्रं हृदयदेशमानीय कथयतीत्यर्थः ।
सोऽयमित्यादिवाक्यान्तरमवतार्य व्याकरोति –
ओङ्कारेति ।
सर्वाधिष्ठानतया परोक्षरूपेण परत्वं प्रत्यग्रूपेण चापरत्वं तेन कार्यकारणरूपेण सर्वात्मना व्यवस्थितः सन्नात्मा प्रतिपत्तिसौकर्यार्थं चतुष्पात् कल्प्यते, तत्र दृष्टान्तमाह –
कार्षापणवदिति ।
देशविशेषे कार्षापणशब्दः षोडशपणानां संज्ञा । तत्र तथा व्यवहारप्राचुर्याय पादकल्पना क्रियते तथेहापीत्यर्थः ।
यथा गौश्चतुष्पादुच्यते न तथा चतुष्पादादेष्टुं शक्यते निष्कलश्रुतिव्याकोपादित्याह –
न गौरिवेति ।
विश्वादिषु तुर्यान्तेषु पादशब्दो यदि करणव्युत्पत्तिकस्तदा विश्वादिवत्तुर्यस्यापि करणकोटिनिवेशो ज्ञेयासिद्धिः ।
यदि तु पादशब्दः सर्वत्र कर्मव्युत्पत्तिकस्तदा साधनासिद्धिरित्याशङ्क्य विभज्य पादशब्दप्रवृत्तिं प्रकटयति –
त्रयाणामित्यादिना ।
करणसाधनः करणव्युत्पत्तिकः, कर्मसाधनः कर्मव्युत्पत्तिक इति यावत् ॥२॥