माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥
कथं चतुष्पात्त्वमित्याह — जागरितस्थान इति । जागरितं स्थानमस्येति जागरितस्थानः, बहिःप्रज्ञः स्वात्मव्यतिरिक्ते विषये प्रज्ञा यस्य, सः बहिःप्रज्ञः ; बहिर्विषयेव प्रज्ञा यस्याविद्याकृतावभासत इत्यर्थः । तथा सप्त अङ्गान्यस्य ; ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ’ (छा. उ. ५ । १८ । २) इत्यग्निहोत्राहुतिकल्पनाशेषत्वेनाग्निर्मुखत्वेनाहवनीय उक्त इत्येवं सप्ताङ्गानि यस्य, सः सप्ताङ्गः । तथा एकोनविंशतिर्मुखान्यस्य ; बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश, वायवश्च प्राणादयः पञ्च, मनो बुद्धिरहङ्कारश्चित्तमिति, मुखानीव मुखानि तानि ; उपलब्धिद्वाराणीत्यर्थः । स एवंविशिष्टो वैश्वानरः यथोक्तैर्द्वारैः शब्दादीन्स्थूलान्विषयान्भुङ्क्त इति स्थूलभुक् । विश्वेषां नराणामनेकधा सुखादिनयनाद्विश्वानरः, यद्वा विश्वश्चासौ नरश्चेति विश्वानरः, विश्वानर एव वैश्वानरः, सर्वपिण्डात्मानन्यत्वात् ; स प्रथमः पादः । एतत्पूर्वकत्वादुत्तरपादाधिगमस्य प्राथम्यमस्य । कथम् ‘अयमात्मा ब्रह्म’ इति प्रत्यगात्मनोऽस्य चतुष्पात्त्वे प्रकृते द्युलोकादीनां मूर्धाद्यङ्गत्वमिति ? नैष दोषः, सर्वस्य प्रपञ्चस्य साधिदैविकस्य अनेनात्मना चतुष्पात्त्वस्य विवक्षितत्वात् । एवं च सति सर्वप्रपञ्चोपशमे अद्वैतसिद्धिः । सर्वभूतस्थश्च आत्मा एको दृष्टः स्यात् ; सर्वभूतानि चात्मनि । ‘यस्तु सर्वाणि भूतानि’ (ई. उ. ६) इत्यादिश्रुत्यर्थश्चैवमुपसंहृतः स्यात् ; अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्यगात्मा साङ्‍ख्यादिभिरिव दृष्टः स्यात् ; तथा च सति अद्वैतमिति श्रुतिकृतो विशेषो न स्यात् , साङ्‍ख्यादिदर्शनेनाविशेषात् । इष्यते च सर्वोपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् ; ततो युक्तमेवास्य आध्यात्मिकस्य पिण्डात्मनो द्युलोकाद्यङ्गत्वेन विराडात्मनाधिदैविकेनैकत्वमित्यभिप्रेत्य सप्ताङ्गत्ववचनम् । ‘मूर्धा ते व्यपतिष्यत्’ (छा. उ. ५ । १२ । २) इत्यादिलिङ्गदर्शनाच्च । विराजैकत्वमुपलक्षणार्थं हिरण्यगर्भाव्याकृतात्मनोः । उक्तं चैतन्मधुब्राह्मणे — ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मम्’ (बृ. उ. २ । ५ । १) इत्यादि । सुषुप्ताव्याकृतयोस्त्वेकत्वं सिद्धमेव, निर्विशेषत्वात् । एवं च सत्येतत्सिद्धं भविष्यति — सर्वद्वैतोपशमे चाद्वैतमिति ॥

आत्मनो निरवयवस्य पादद्वयमपि नोपपद्यते, पादचतुष्टयं तु दूरोत्सारितमिति शङ्कते –

कथमिति ।

परमार्थतश्चतुष्पात्त्वाभावेऽपि काल्पनिकमुपायोपेयभूतं पादचतुष्टयमविरुद्धमित्यभिप्रेत्याऽऽद्यं पादं व्युत्पादयति –

आहेत्यादिना ।

स्थानमस्येत्यभिमानस्य विषयभूतमित्यर्थः ।

प्रज्ञायास्तावदान्तरत्वप्रसिद्धेरयुक्तमिदं विशेषणमित्याशङ्क्य व्याचष्टे –

बहिरिति ।

चैतन्यलक्षणा प्रज्ञा स्वरूपभूता न बाह्ये विषये प्रतिभासते तस्या विषयानपेक्षत्वात्, बाह्यस्य च विषयस्य वस्तुतोऽभावादित्याशङ्क्याऽऽह –

बहिर्विषयेवेति ।

न स्वरूपप्रज्ञा वस्तुतो बाह्यविषयेष्यते, बुद्धिवृत्तिरूपा त्वसावज्ञानकल्पिता तद्विषया भवति । न च साऽपि वस्तुतस्तद्विषयतामनुभवति । वस्तुतः स्वयमभावाद्, बाह्यस्य विषयस्य काल्पनिकत्वात् । अतस्तद्विषयत्वं प्रातिभासिकमित्यर्थः ।

पूर्वेण विशेषणेन विशेषणान्तरं समुच्चिनोति –

तथेति ।

सप्ताङ्गत्वं श्रुत्यवष्टम्भेन विश्वस्य विशदयति –

तस्येत्यादिना ।

प्रकृतस्य सन्निहितप्रसिद्धस्यैवाऽऽत्मनस्त्रैलोक्यात्मकस्य वक्ष्यमाणरीत्या वैश्वानरशब्दितस्य सुतेजस्त्वगुणविशिष्टो द्युलोको मूर्धैवेति धुलोकस्य शिरस्त्वमुपदिश्यते । विश्वरूपो नानाविधः श्वेतपीतादिगुणात्मकः सूर्यश्चक्षुर्विवक्ष्यते । पृथङ् नानाविधं वर्त्म सञ्चरणमात्मा स्वभावोऽस्येति व्युत्पत्त्या वायुस्तथोच्यते । स च प्राणस्तस्येति सम्बन्धः । बहुलो विस्तीर्णगुणवानाकाशः सन्देहो देहस्य मध्यमो भागः । रयिरन्नं तद्धेतुरुदकं बस्तिरस्य मूत्रस्थानम् । पृथिव्येव प्रतिष्ठात्वगुणा वैश्वानरस्य पादौ । तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयमियमित्यग्निहोत्रकल्पना श्रुता । तस्याः शेषत्वेनाऽऽहवनीयोऽग्निरस्य मुख्यत्वेनोक्त इति योजना ।

उक्तं सप्ताङ्गत्वमुपसंहरति –

इत्येवमिति ।

विशेषणान्तरं समुच्चिनोति –

तथेति ।

बुद्ध्यर्थानीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । कर्मार्थानीन्द्रियाणि वाक्पाणिपादपायूपास्थानि । तान्येतानि द्विविधानीन्दियाणि दश भवन्ति । प्राणादय इत्यादिशब्देनापानव्यानोदानसमाना गृह्यन्ते । उपलब्धिद्वाराणीत्युपलब्धिपदं कर्मोपलक्षणार्थम् । द्वारत्वं करणत्वम् । तत्र बुद्धीन्द्रियाणां मनसो बुद्धेश्च प्रसिद्धमुपलब्धौ करणत्वम् । कर्मेन्द्रियाणां तु वदनादौ कर्मणि करणत्वम् । प्राणादीनां पुनरुभयत्र पारम्पर्येण करणत्वम् । तेषु सत्स्वेव ज्ञानकर्मणोरुत्पत्तेः, असत्सु चानुत्पत्तेः । मनोबुद्ध्योश्च सर्वत्र साधारणं करणत्वम् । अहङ्कारस्यापि प्राणादिवदेव करणत्वं मन्तव्यम् । चित्तस्य चैतन्याभासोदये करणत्वमुक्तमिति विवेक्तव्यम् । पूर्वोक्तैर्विशेषणैर्विशिष्टस्य वैश्वानरस्य स्थूलभुगिति विशेषणान्तरम् ।

तद्विभजते –

स एवंविश्ष्ट इति ।

शब्दादिविषयाणां स्थूलत्वं दिगादिदेवतानुगृहीतैः श्रोत्रादिभिर्गृह्यमाणत्वम् ।

इदानीं वैश्वानरशब्दस्य प्रकृतविश्वविषयत्वं विशदयति –

विश्वेषामिति ।

कर्मणि षष्ठी । विश्वे च ते नराश्चेति विश्वानराः । निपातात्पूर्वपदस्य दीर्घता । विश्वान् नरान् भोक्तृत्वेन व्यवस्थितान् प्रत्यनेकधा धर्माधर्मकर्मानुसारेण सुखदुःखादिप्रापणादयं कर्मफलदाता वैश्वानरशब्दितो भवतीत्यर्थः । अथ वा विश्वश्चासौ नरश्चेति विश्वानरः स एव वैश्वानरः ।

स्वार्थे तद्धितो राक्षसवायसवदित्याह –

विश्वेति ।

कथं विश्वश्चासौ नरश्चेति विगृह्यते ? जाग्रतां नराणामनेकत्वात्तादत्म्यानुपपत्तेरित्याशङ्क्याह –

सर्वेति ।

सर्वपिण्डात्मा समष्टिरूपो विराडुच्यते । तेनाऽऽत्मना विश्वेषामनन्यत्वाद्यथोक्तसमाससिद्धिरित्यर्थः ।

विश्वस्य तैजसादुत्पत्तेस्तस्यैव प्राथम्यं युक्तम्, कार्यस्य तु पश्चाद्भावित्वमुचितमित्याशङ्क्याह –

एतदिति ।

प्रविलापनापेक्षया प्राथम्यं न सृष्ट्यपेक्षयेत्यर्थः ।

अध्यात्माधिदैवयोर्भेदमादाय प्रागुक्तं सप्ताङ्गत्वमाक्षिपति –

कथमिति ।

ब्रह्मणि प्रकृते तस्य परोक्षत्वे शङ्किते तन्निरासार्थं ब्रह्मायमात्मेति प्रत्यगात्मानं प्रकृत्य सोऽयमात्मा चतुष्पादिति चतुष्पात्त्वे तस्य प्रक्रान्ते द्युलोकादीनां मूर्धाद्यङ्गत्वसप्ताङ्गत्वसिद्ध्यर्थं यदुक्तं तदयुक्तं प्रक्रमविरोधादित्यर्थः ।

अध्यात्माधिदैवयोर्भेदाभावान्न प्रक्रमविरोधोऽस्तीति परिहरति –

नैष दोष इति ।

तत्र हेतुमाह –

सर्वस्येति ।

आध्यात्मिकस्याऽऽधिदैविकेन सहितस्य प्रपञ्चस्य सर्वस्यैव स्थूलस्य पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकस्यानेनाऽत्मना विराजा प्रथमपादत्वम् । तस्यैव सूक्ष्मस्यापञ्चीकृतपञ्चमहाभूततत्कार्यात्मनो हिरण्यगर्भत्मना द्वितीयपादत्वम् । तस्यैव कार्यरूपतां त्यक्त्वा कारणरूपतामापन्नस्याव्याकृतात्मना तृतीयपादत्वम् । तस्यैव तु कार्यकारणरूपतां विहाय सर्वकल्पनाधिष्ठानतया स्थितस्य सत्यज्ञानानन्तानन्दात्मना चतुर्थपादत्वम् । तदेवमध्यात्माधिदैवयोरभेदमादयोक्तेन प्रकारेण चतुष्पात्त्वस्य वक्तुमिष्टत्वात् पूर्वपूर्वपादस्योत्तरोत्तरपादात्मना प्रविलापनात्तुरीयनिष्ठायां पर्यवसानं सिद्ध्यतीत्यर्थः ।

यदैयं तुरीये पर्यवसानं जिज्ञासोर्मुमुक्षोरिष्यते तदा तत्त्वज्ञानप्रतिबन्धकस्य प्रातिभासिकद्वैतस्योपरमे सति अद्वैतपरिपूर्णब्रह्माहमस्मीति वाक्यार्थसाक्षात्कारः सिध्यतीति फलितमाह –

एवं चेति ।

उक्तन्यायेन तत्त्वसाक्षात्कारे संगृहीते सर्वेषु भूतेषु ब्रह्मादिस्थावरान्तेष्वात्मैकोऽद्वितीयो दृष्टः स्यात् । ‘एको देवः सर्वभूतेषु’(श्वे. उ. १ । १०) इति तत्र तत्र ब्रह्मचैतन्यस्यैव प्रत्यक्त्वेनावस्थानाभ्युपगमात् तानि तानि च सर्वाणि प्रातिभासिकानि भूतानि तस्मिन्नेवात्मनि कल्पितानि दृष्टानि स्युः । तथा च पूर्णत्वमात्मनो भूतान्तराणां च तदतिरेकेण सत्तास्फुरणविरहितत्वं सिद्ध्यति ।

ततश्च – “सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि । सम्पश्यन्नात्मयाजी वै स्वाराज्यमभिगच्छति॥”(मनु. स्मृ. १२ । ९१) इति स्मृतिरनुगृहीता भवतीत्याह –

सर्वभूतस्थश्चेति ।

न चेदं मानवं वचनममानमिति शङ्कनीयम् । ‘यद्वै किञ्च मनुरवदत्तद्भेषजम्’ (तै. सं. २ । २ । १० । २) इति श्रुतेरित्यभिप्रेत्य दर्शितस्मृतिमूलभूतां श्रुतिं सूचयति –

यस्त्विति ।

यो हि पादत्रयं प्रागुक्तया प्रक्रियया प्रविलाप्य तुरीये नित्ये विज्ञप्तिमात्रे सदानन्दैकताने परिपूर्णे प्रतिष्ठां प्रतिपद्यते स ब्रह्माहमस्मीत्यात्मानं जानानः सर्वेषां भूतानामधिष्ठानान्तरमनुपलभमान आत्मन्येव प्रातीतिकानि तानि प्रत्येति । तेषु सर्वेष्वात्मानं सत्तास्फूर्तिप्रदमवगच्छति । ततश्च न किञ्चिदपि गोपायितुमिच्छतीति श्रुत्यर्थश्च यथोक्तरित्या तत्त्वसाक्षात्कारे सङ्गृहीते सति स्वीकृतः स्यादित्यर्थः ।

अध्यात्माधिदैवयोरभेदाभ्युपगमद्वारेण प्रागुक्तपरिपाट्या तत्त्वज्ञानानभ्युपगमे दोषमाह –

अन्यथेति ।

साङ्ख्यादिपक्षस्यापि प्रामाणिकत्वात्तथैव प्रतिदेहं परिच्छिन्नस्य प्रत्यगात्मनो दर्शनेन प्रामाणिकोऽर्थोऽभ्युपगतो भवति ।

व्यवस्थानुपपत्त्या च प्रतिशरीरमात्मभेदः सिद्ध्यतीत्याशङ्क्याऽऽह –

तथा चेति ।

साङ्ख्यादीनां द्वैतविषयं दर्शनमिष्टम् । तेन त्वदीयदर्शनस्याद्वैतविषयस्य विशेषाभावादद्वैतं तत्त्वमिति श्रुतिसिद्धो विशेषस्त्वत्पक्षे न सिध्येदतः श्रुतिविरोधो भेदवादे प्रसज्येत । व्यवस्था त्वौपाधिकभेदमधिकृत्य सुस्था भविष्यतीत्यर्थः । ननु भेदवादेऽपि नाद्वैतश्रुतिर्विरुध्यते ।

ध्यानार्थमन्नं ब्रह्मेतिवदद्वैतं तत्त्वमित्युपदेशसिद्धेरित्याशङ्क्याऽऽह –

इष्यते चेति ।

उपक्रमोपसंहारैकरूप्यादिना सर्वासामुपनिषदां सर्वेषु देहेष्वात्मैक्यप्रतिपादनपरत्वमिष्टमतो न ध्यानार्थत्वमद्वैतश्रुतेरेष्टुं शक्यम् । वस्तुपरत्वलिङ्गविरोधादित्यर्थः ।

अध्यात्माधिदैवयोरेकत्वमुपेत्याद्वैतपर्यवसाने सिद्धे सत्याध्यात्मिकस्य व्यष्ट्यात्मनो विश्वस्य त्रैलोक्यात्मकेनाऽऽधिदैविकेन विराजा सहैकत्वं गृहीत्वा यत्तस्य सप्ताङ्गत्वमुक्तं तदविरुद्धमित्युपसंहरति –

अत इति ।

अध्यात्माधिदैवयोरैक्ये हेत्वन्तरमाह –

मूर्धेति ।

दिवादित्यादिकं वैश्वानरावयवं वैश्वानरबुद्ध्या ध्यायतो जिज्ञासया पुनरखण्डपक्षमुपगतस्य ‘मूर्धा ते व्यपतिष्यद्यन्मां नाऽऽगमिष्यः’ (छा. उ. ५ । १२ । २) इत्यन्धोऽभविष्यो यन्मामित्यादिव्यस्तोपासननिन्दा समस्तोपासनविधित्सया दृश्यते । न च द्युलोकादिकं विपरीतबुद्ध्या गृहीतवतः स्वकीयमूर्धादिपरिपतनमुचितं यद्यध्यात्माधिदैवयोरेकत्वं न भवेत् तस्मात्तयोरेकत्वमत्र विवक्षितं भवतीत्यर्थः । ननु विराजो विश्वेनैकत्वमेव मूलग्रन्थे दृश्यते ।

तत्कथमविशेषेणाध्यात्माधिदैवयोरेकत्वं विवक्षित्वाऽद्वैतपर्यवसानं भाष्यकृतोच्यते, तत्राऽऽह –

विराजेति ।

यन्मुखतो विराजो विश्वेनैकत्वं दर्शितं तत्तु हिरण्यगर्भस्य तैजसेनान्तर्यामिणश्चाव्याकृतोपहितस्य प्राज्ञेन सहैकत्वस्योपलक्षणार्थमतो मूलग्रन्थेऽप्यविशेषेणाध्यात्माधिदैवयोरेकत्वं विवक्षितमित्यद्वैतपर्वयसानसिद्धिरित्यर्थः ।

अध्यात्माधिदैवयोर्यदेकत्वमिहोच्यते तन्मधुब्राह्मणेऽपि दर्शितमित्याह –

उक्तं चेति ।

अधिदैवमध्यात्मं चैकरूपं निर्देशं प्रतिपर्यायमयमेव स इत्यभेदवचनादेकत्वमत्र विवक्षितमित्यर्थः । ननु विश्वविराजोः स्थूलाभिमानित्वात्तैजसहिरण्यगर्भयोश्च सूक्ष्माभिमानित्वादेकत्वं युक्तम् ।

प्राज्ञाव्याकृतयोस्तु केन साधार्म्येणैकत्वं, तत्राऽऽह –

सुषुप्तेति ।

प्राज्ञो हि सर्वं विशेषमुपसंहृत्य निर्विशेषः सुषुप्ते वर्तते, प्रलयदशायामव्याकृतं च निःशेषविशेषं स्वात्मन्युपसंहृत्य निर्विशेषरूपं तिष्ठति, तेनोक्तं साधर्म्यं पुरोधाय तयोरैक्यमविरुद्धमित्यर्थः ।

अध्यात्माधिदैवयोरेकत्वे प्रागुक्तन्यायेन प्रसिद्धे सत्युपसंहारप्रक्रियया सिद्धमद्वैतमिति फलितमाह –

एवं चेति ।

तच्चाद्वैतं प्रतिबन्धध्वंसमात्रेण न स्फुरति, किं तु वाक्यादेवाऽऽचार्योपदिष्टादिति वक्तुं चशब्दः ॥३॥