द्वितीयपादमतार्य व्याचष्टे –
स्वप्नेत्यादिना ।
स्थानं पूर्ववत् । द्रष्टुर्ममाभिमानस्य विषयभूतमिति यावत् ।
स्वप्नपदार्थं निरूपयितुं तत्कारणं निरूपयति –
जग्रदित्यादिना ।
तस्याः स्वप्नाद् वैधर्म्यार्थं विशेषणमाह –
अनेकेति ।
अनेकानि विविधानि साधनानि करणानि यस्याः सा तथेति यावत् ।
विषयद्वारकमपि वैषम्यं दर्शयति –
बहिरिति ।
बाह्यस्य शब्दादेर्विषयस्याविद्याविवर्तत्वेन वस्तुतोऽभावान्न तद्विषयत्वमपि यथोक्तप्रज्ञाया वास्तवं, किं तु प्रातीतिकमित्यभिप्रेत्योक्तमिवेति । न च यथोक्ता प्रज्ञा प्रमाणसिद्धा, तस्या अनवस्थानात् ।
तेन साक्षिवेद्या सेति विवक्षित्वाऽऽह –
अवभासमानेति ।
द्वैततत्प्रतिभासयोर्वस्तुतोऽसत्त्वे हेतुं सूचयति –
मनः स्पन्दनेति ।
यथोक्ता प्रज्ञा स्वानुरूपां वासनां स्वसमानाधारामुत्पादयतीत्याह –
तथाभूतमिति ।
जाग्रद्वासनावासितं मनो जागरितवदवभासते स्वप्नद्रष्टुरित्येष्टव्यं मनस एव वासनावतः स्वप्ने विषयत्वात् अतिरिक्तविषयाभावादित्याह –
तथा संस्कृतमिति ।
जाग्रद्वासनावासितं मनो जागरितवद्भातीत्यत्र दृष्टान्तमाह –
चित्रित इति ।
यथा पटश्चित्रितश्चित्रवद्भाति तथा मनो जागरितसंस्कृतं तद्वद्भातीति युक्तमित्यर्थः ।
स्वप्नस्य जागरिताद्वैधर्म्यं सूचयति –
बाह्येति ।
यथोक्तस्य मनसो जागरितवदनेकधा प्रतिभाने कारणान्तरमाह –
अविद्येति ।
यदुक्तं स्वप्नस्य जागरितजनितवासनाजन्यत्वं तत्र – बृहदारण्यकश्रुतिं प्रमाणयति –
तथा चेति ।
अस्य लोकस्येति जागरितोक्तिस्तस्य विशेषणं सर्वावदिति । सर्वा साधनसम्पत्तिरस्मिन्नस्तीति सर्ववान् सर्ववानेव सर्वावान्, तस्य मात्रा लेशो वासना तामपादायापच्छिद्य गृहीत्वा स्वपिति वासनाप्रधानं स्वप्नमनुभवतीत्यर्थः ।
यत्तु स्वप्नरूपेण परिणतं मनः साक्षिणो विषयो भवतीति, तत्र श्रुत्यन्तरं दर्शयति –
तथेति ।
परत्वं मनसस्तदुपाधित्वाद्वाऽसाधारणकारणत्वाद्वा, देवत्वं द्योतनात्मकत्वात् तत् मनो ज्योतिरिति ज्योतिः शब्दात्, तस्मिन्नेकीभवति, स्वप्ने द्रष्टा तत्प्रधानो भवतीति स्वप्नं प्रकृत्यात्र स्वप्ने स्वप्रकाशो द्रष्टा महिमानं मनसो विभूतिं ज्ञानज्ञेयपरिणामत्वलक्षणां साक्षात्कारोति । तथा च मनसो विषयत्वान्न तत्राऽऽत्मग्राहकत्वशङ्केत्यर्थः ।
ननु विश्वस्य बाह्येन्द्रियजन्यप्रज्ञायास्तैजसस्य मनोजन्यप्रज्ञायाश्चान्तःस्थत्वाविशेषादन्तःप्रज्ञत्वविशेषणं न व्यावर्तकमिति, तत्राऽऽह –
इन्द्रियेति ।
उपपादितं तावद्विश्वस्य बहिष्प्रज्ञत्वं तैजसस्त्वन्तः प्रज्ञो विज्ञायते बाह्यानीन्द्रियाण्यपेक्ष्य मनसोऽन्तःस्थत्वात् तत्परिणामत्वाच्च स्वप्नप्रज्ञायास्तद्वानन्तःप्रज्ञो युज्यते । किं च मनःस्वभावभूता या जागरितवासना तद्रूपा स्वप्नप्रज्ञेति युक्तं तैजसस्यान्तःप्रज्ञत्वमित्यर्थः ।
स्वप्नाभिमानिनस्तेजोविकारत्वाभावात् कुतस्तैजसत्वमित्याशङ्क्याऽऽह –
विषयेति ।
स्थूलो विषयो यस्यां वासनामाय्यां प्रज्ञायां न ज्ञायते तस्यां विषयसंस्पर्शमन्तरेण प्रकाशमात्रतया स्थितायामाश्रयत्वेन भवतीति स्वप्नद्रष्टा तैजसो विवक्षितः । तेजःशब्देन यथोक्तवासनामय्याः प्रज्ञाया निर्देशादित्यर्थः । ननु विश्वतैजसयोरविशिष्टं प्रविविक्तभुगिति विशेषणम् । प्रज्ञाया भोज्यत्वस्य तुल्यत्वात् । मैवम् । तस्या भोज्यत्वाविशेषेऽपि तस्यामवान्तरभेदात् सविषयत्वाद्विश्वस्य भोज्या प्रज्ञा स्थूला लक्ष्यते ।
तैजसे तु प्रज्ञा विषयसंस्पर्शशून्या वासनामात्ररूपेति विविक्तो भोगः सिध्यतीत्याह –
विश्वस्येति ।
सप्ताङ्गैकोनविंशतिमुखत्वमित्येतदन्यदित्युच्यते ॥४॥