पादद्वयमेवं व्याख्याय तृतीयं पादं व्याख्यास्यन् व्याख्यायमानश्रुतौ न कञ्चनेत्यादिविशेषणस्य तात्पर्यमाह –
दर्शनेति ।
दर्शनस्य स्थूलविषयस्य वृत्तिरत्रास्तीति जागरितं दर्शनवृत्तिरित्युच्यते, स्थूलविषयदर्शनादन्यद्दर्शनमदर्शनं वासनामात्रं तस्य वृत्तिरत्रास्तीत्यदर्शनवृत्तिः स्वप्नस्तयोः सुषुप्तवदेव स्वापस्य तत्त्वाग्रहणस्य तुल्यत्वात् ‘यत्र सुप्त’ इत्युक्ते तयोरपि प्रसक्तौ तद्व्यवच्छेदेन सुषुप्तस्यैव ग्रहणार्थं ‘यत्र सुप्त’(बृ. उ. ४ । ३ । १९) इत्यादिवाक्ये ‘न कञ्चने’ त्यादिविशेषणम् । तद्धि स्थानद्वयं व्यवच्छिद्य सुषुप्तमेव ग्राहयतीत्यर्थः ।
न कञ्चन स्वप्नं पश्यतीत्यनेनैव विशेषणेन स्थानद्वयव्यवच्छेदसम्भवाद् विशेषणान्तरमकिञ्चित्करमित्याशङ्क्याऽऽह –
अथ वेति ।
तत्त्वाप्रतिबोधः स्वापस्तस्य स्थानत्रयेऽपि तुल्यत्वाज्जाग्रत्स्वप्नाभ्यां विभज्य सुषुप्तं ज्ञापयितुं विशेषणमित्यर्थः ।
एकस्यैव विशेषणस्य व्यवच्छेदकत्वसम्भवादलं विशेषणाभ्यामित्यस्य कः समाधिरित्याशङ्क्य विशेषणयोर्विकल्पेन व्यवच्छेदकत्वान्नाऽनर्थक्यमिति मत्वाऽऽह –
न हीति ।
यत्रेत्यस्यापेक्षितार्थं कथयति –
तदेतदिति ।
अन्यथाग्रहणशून्यत्वं कामसंस्पर्शविरहितत्वं च विशेषणाभ्यां विवक्षितम् ।
कथमस्य सद्वितीयस्यैकीभूतत्वविशेषणमित्याशङ्क्याह –
स्थानद्वयेति ।
जागरितं स्वप्नश्चेति स्थानद्वयम् । तेन प्रविभक्तं यद् द्वैतं स्थूलं सूक्ष्मं च तत्सर्वं मनःस्पन्दितमात्रमिति वक्ष्यते । तच्च यथा स्वकीयरूपमात्मनो विभक्तं तथैव तस्यात्यागेनाव्याकृताख्यं कारणमापन्नं स्वकीयसर्वविस्तारसहितं कारणात्मकं भवति । यथाऽहर्नैशेन तमसा ग्रस्तं तमस्त्वेनैव व्यवह्रियते तथेदमपि कार्यजातं कारणभावमापन्नं कारणमित्येव व्यवह्रियते । तस्यां चावस्थायां तदुपाधिरात्मैकीभूतविशेषणभाग् भवतीत्यर्थः ।
तथाऽपि कारणोपहितस्य प्रज्ञानघनविशेषणमयुक्तं निरुपाधिकस्यैव तथा विशेषणसम्भवादित्याशङ्क्याह –
अत एवेति ।
सर्वस्य कार्यप्रपञ्चस्य समनस्कस्य सुषुप्ते कारणात्मना स्थितत्वादेवेत्यर्थः ।
सुषुप्तावस्थायामुक्तप्रज्ञानानामेकमूर्तित्वं न वास्तवं, पुनर्यथापूर्वविभागयोग्यत्वादिति मत्वोक्तम् –
इवेति ।
सुषुप्त्यवस्थायाः कारणात्मकत्वाज्जाग्रत्स्वप्नप्रज्ञानानां तत्रैकीभावात् प्रज्ञानघनशब्दवाच्यतेत्युक्तमनुवदति –
सेयमिति ।
उक्तमेवार्थं दृष्टान्तेन बुद्धावाविर्भावयति –
यथेत्यादिना ।
एवकारस्य नायोगव्यवच्छित्तिरर्थः ।
किं तु अन्ययोगव्यवच्छित्तिरित्याह –
एवशब्दादिति ।
प्रज्ञस्याऽऽनन्दविकारत्वाभावे कथमानन्दमयत्वविशेषणमित्याशङ्क्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकदुःखाभावात् प्राचुर्यार्थत्वं मयटो गृहीत्वा विशेषणोपपत्तिं दर्शयति –
मनस इति ।
मयटः स्वरूपार्थत्वादानन्दमयत्वमानन्दत्वमेव किं न स्यादित्याशङ्क्याऽऽह –
नेत्यादिना ।
न हि सुषुप्ते निरुपाधिकानन्दत्वं प्राज्ञस्याभ्युपगन्तुं शक्यं तस्य कारणोपहितत्वात् । अन्यथा मुक्तत्वात्पुनरुत्थानायोगात् । तस्मादानन्दप्राचुर्यमेवास्य स्वीकर्तुं युक्तमित्यर्थः ।
आनन्दभुगिति विशेषणं सदृष्टान्तं व्याचष्टे –
यथेति ।
तथा सुषुप्तोऽपीति शेषः ।
दार्ष्टान्तिकं विवृणोति –
अत्यन्तेति ।
इयं स्थितिरिति सुषुप्तिरुक्ता । अनेनेति प्राज्ञोक्तिः ।
सौषुप्तस्य पुरुषस्य तस्यामवस्थायां स्वरूपभूतानतिशयानन्दाभिव्यक्तिरस्तीत्यत्र प्रमाणमाह –
एषोऽस्येति ।
प्राज्ञस्यैव चेतोमुख इति विशेषणान्तरं तद्व्याचष्टे –
स्वप्नादीति ।
स्वप्नो जागरितं चेति प्रतिबोधशब्दितं चेतस्तत्प्रति द्वारभूतत्वं द्वारभावेन स्थितत्वम् । न हि स्वप्नस्य जागरितस्य वा सुषुप्तद्वारमन्तरेण सम्भवोऽस्ति । तयोस्तत्कार्यत्वात् । अतः सुषुप्ताभिमानी प्राज्ञः स्थानद्वयकारणत्वाच्चेतोमुखव्यपदेशभागित्यर्थः । अथवा प्राज्ञस्य सुषुप्ताभिमानिनः स्वप्नं जागरितं वा प्रति क्रमाक्रमाभ्यां यदागमनं तत्प्रति चैतन्यमेव द्वारम् ।
न हि तद् व्यतिरेकेण काऽपि चेष्टा सिध्यतीत्यभिप्रेत्य पक्षान्तमाह –
बोधेत्यादिना ।
भूते भविष्यति च विषये ज्ञातृत्वं तथा सर्वस्मिन्नपि वर्तमाने विषये ज्ञातृत्वमस्यैवेति प्रकर्षेण जानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः ।
तदेव प्राज्ञपदं व्युत्पादयति –
भूतेति ।
सुषुप्ते समस्तविशेषविज्ञानोपरमात् कुतो ज्ञातृत्वमित्याशङ्क्याह –
सुषुप्तोऽपीति ।
यद्यपि सुषुप्तस्तस्यामवस्थायां समस्तविशेषविज्ञानविरहितो भवति तथापि भूता निष्पन्ना या जागरिते स्वप्ने च सर्वविषयज्ञातृत्वलक्षणा गतिस्तया प्रकर्षेण सर्वम् आसमन्ताज्जानातीति प्राज्ञशब्दवाच्यो भवतीत्यर्थः ।
तर्हि प्राज्ञशब्दस्य मुख्यार्थत्वं न सिध्यतीत्याशङ्क्याऽऽह –
अथवेति ।
असाधारणमितिविशेषणद्योतितमर्थं स्फुटयति –
इतरयोरिति ।
आध्यात्मिकस्य तृतीयपादस्य व्याख्यामुपसंहरति –
सोऽयमिति ॥ ५॥