प्राज्ञस्याऽऽधिदैविकेनान्तर्यामिणा सहाभेदं गृहीत्वा विशेषणान्तरं दर्शयति –
एष हीति ।
स्वरूपावस्थत्वमुपाधिप्राधान्यमवधूय चैतन्यप्राधान्यम् । अन्यथा स्वातन्त्र्यानुपपत्तेः ।
नैयायिकादयस्तु ताटस्थ्यमीश्वरस्याऽऽतिष्ठन्ते, तदयुक्तं, पत्युरसामञ्जस्यादिति न्यायविरोधादित्याह –
नैतस्मादिति ।
श्रुतिविरोधादपि न तस्य ताटस्थ्यमास्थेयमित्याह –
प्राणेति ।
प्रकृतमज्ञातं परं ब्रह्म सदाख्यं प्राणशब्दितं तद्बन्धनं बध्यतेऽस्मिन् पर्यवस्यतीति व्युत्पत्तेः । न हि जीवस्य परमात्मातिरेकेण पर्यवसानमस्ति । मनस्तदुपहितं जीवचैतन्यमात्रं प्राणशब्दस्याऽऽध्यात्मिकार्थस्य परस्मिन् प्रयोगान्मनःशब्दितस्य च जीवस्य तस्मिन् पर्यवसानाभिधानाद्वस्तुतो भेदो नास्तीति द्योतितमित्यर्थः ।
प्राज्ञस्यैव विशेषणान्तरं साधयति –
अयमेवेति ।
नन्ववधारणं नोपपद्यते ।
व्यासपराशरप्रभृतीनामन्येषामपि सर्वज्ञत्वप्रसिद्धेरित्याशङ्क्य विशिनष्टि –
सर्वेति ।
अन्तर्यामित्वं विशेषणान्तरं विशदयति –
अन्तरिति ।
अन्यस्य कस्यचिदन्तरनुप्रवेशे नियमने च सामर्थ्याभावादवधारणम् ।
उक्तं विशेषणत्रयं हेतुं कृत्वा प्रकृतस्य प्राज्ञस्य सर्वजगत्कारणत्वं विशेषणान्तरमाह –
अत एवेति ।
यथोक्तं स्वप्नजागरितस्थानद्वयप्रविभक्तमित्यर्थः । सभेदमध्यात्माधिदैवाधिभतभेदसहितमिति यावत् ।
निमित्तकारणत्वनियमेऽपि प्राचीनानि विशेषणानि निर्वहन्तीत्याशङ्क्य प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादिति न्यायान्निमित्तोपादानयोर्जगति न भिन्नत्वमित्येवं नियमतः सिद्धमतो विशेषणान्तरमित्याह –
यत इति ।
प्रभवत्यस्मादिति प्रभवः । अप्येत्यस्मिन्नित्यप्ययः। न चैतौ भूतानामेकत्रोपादानादृते सम्भावितावित्यर्थः ॥६॥