माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया ।
स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥
स्वयं स्वमायया स्वमात्मानमात्मा देवः आत्मन्येव वक्ष्यमाणं भेदाकारं कल्पयति रज्ज्वादाविव सर्पादीन् , स्वयमेव च तान्बुध्यते भेदान् , तद्वदेवेत्येवं वेदान्तनिश्चयः । नान्योऽस्ति ज्ञानस्मृत्याश्रयः । न च निरास्पदे एव ज्ञानस्मृती वैनाशिकानामिवेत्यभिप्रायः ॥

कर्तृकार्यादिव्यवस्थानुपपत्तिं परिहरति –

कल्पयतीति ।

करणान्तरं व्यवच्छिनत्ति –

आत्मनेति ।

कर्मान्तरं व्यावर्तयति –

आत्मानमिति ।

कर्त्रन्तरं निवारयति –

आत्मेति ।

तस्य द्योतकान्तरापेक्षां प्रतिक्षिपति –

देव इति ।

विवर्तवादं द्योतयति –

स्वमाययेति ।

सर्वस्य मिथ्यात्वेऽपि मायया विकल्पितभेदानुरोधेन कर्तृत्वादिव्यवस्था सिद्ध्यतीति भावः ।

प्रमातृप्रमाणादिव्यवहारानुपपत्तिं प्रत्याह –

स एवेति ।

एकस्मिन्नेवाद्वितीये प्रतीचि वस्तुनि कल्पनिकभेदनिबन्धना सर्वा व्यवस्थेत्यत्र प्रमाणमाह –

इति वेदान्तेति ।

यथा घटस्रष्टा कुलालोऽधिष्ठाता मृदोऽन्यो दृष्टो न तथेहान्योऽधिष्ठाताऽस्तीत्याह –

स्वयमिति ।

तथा तत्र मृदाख्यमुपादानमधिष्ठातुरन्यदधिगतं न तथाऽत्रान्यदुपादानमस्तीत्याह –

स्वमात्मानमिति ।

तत्र च घटं कुर्वतो भूभागो भवत्याधारो न तथेहाऽऽधारोऽन्योऽस्तीत्याह –

आत्मन्येवेति ।

परिणामवादं व्यावर्त्य विवर्तवादं प्रकटयितुं स्वमाययेत्युक्तं, तत्र दृष्टान्तमाह –

रज्ज्वादाविति ।

मायाद्वारेण चिदात्मनो जगन्निर्मातृत्वमुक्त्वा तस्यैव बुद्धिप्रतिबिम्बितस्य प्रमातृत्वमित्याह –

स्वयमेव चेति ।

न च प्रमातृत्वस्य तात्त्विकत्वं रज्ज्वादौ सर्पादिदर्शनवदेव मिथ्यात्वनिर्धारणादित्याह –

तद्वदिति ।

कर्त्रादिभेदस्य प्रमात्रादिभेदस्य च मिथ्यात्वे ‘नेह नानाऽस्ति’(बृ. उ. ४ । ४ । १९) इत्यादिश्रुतिं प्रमाणयति –

इत्येवमिति ।

स एवेत्येवकारार्थमाह –

नान्योऽस्तीति ।

यो जगत्स्रष्टा यश्च प्रमाता ततोऽन्यो ज्ञानस्य स्मृतेश्चाऽऽश्रयो नास्ति । चेतनभेदे मानाभावादनुभवस्मृत्योश्चैकाश्रयत्वस्य प्रसिद्धत्वादित्यर्थः ।

ज्ञानस्मृत्योराश्रयापेक्षा विषयापेक्षा वा नास्तीत्याशङ्क्याबाधितप्रसिद्धिविरोधान्मैवमित्याह –

न चेति ॥१२॥