कर्तृकार्यादिव्यवस्थानुपपत्तिं परिहरति –
कल्पयतीति ।
करणान्तरं व्यवच्छिनत्ति –
आत्मनेति ।
कर्मान्तरं व्यावर्तयति –
आत्मानमिति ।
कर्त्रन्तरं निवारयति –
आत्मेति ।
तस्य द्योतकान्तरापेक्षां प्रतिक्षिपति –
देव इति ।
विवर्तवादं द्योतयति –
स्वमाययेति ।
सर्वस्य मिथ्यात्वेऽपि मायया विकल्पितभेदानुरोधेन कर्तृत्वादिव्यवस्था सिद्ध्यतीति भावः ।
प्रमातृप्रमाणादिव्यवहारानुपपत्तिं प्रत्याह –
स एवेति ।
एकस्मिन्नेवाद्वितीये प्रतीचि वस्तुनि कल्पनिकभेदनिबन्धना सर्वा व्यवस्थेत्यत्र प्रमाणमाह –
इति वेदान्तेति ।
यथा घटस्रष्टा कुलालोऽधिष्ठाता मृदोऽन्यो दृष्टो न तथेहान्योऽधिष्ठाताऽस्तीत्याह –
स्वयमिति ।
तथा तत्र मृदाख्यमुपादानमधिष्ठातुरन्यदधिगतं न तथाऽत्रान्यदुपादानमस्तीत्याह –
स्वमात्मानमिति ।
तत्र च घटं कुर्वतो भूभागो भवत्याधारो न तथेहाऽऽधारोऽन्योऽस्तीत्याह –
आत्मन्येवेति ।
परिणामवादं व्यावर्त्य विवर्तवादं प्रकटयितुं स्वमाययेत्युक्तं, तत्र दृष्टान्तमाह –
रज्ज्वादाविति ।
मायाद्वारेण चिदात्मनो जगन्निर्मातृत्वमुक्त्वा तस्यैव बुद्धिप्रतिबिम्बितस्य प्रमातृत्वमित्याह –
स्वयमेव चेति ।
न च प्रमातृत्वस्य तात्त्विकत्वं रज्ज्वादौ सर्पादिदर्शनवदेव मिथ्यात्वनिर्धारणादित्याह –
तद्वदिति ।
कर्त्रादिभेदस्य प्रमात्रादिभेदस्य च मिथ्यात्वे ‘नेह नानाऽस्ति’(बृ. उ. ४ । ४ । १९) इत्यादिश्रुतिं प्रमाणयति –
इत्येवमिति ।
स एवेत्येवकारार्थमाह –
नान्योऽस्तीति ।
यो जगत्स्रष्टा यश्च प्रमाता ततोऽन्यो ज्ञानस्य स्मृतेश्चाऽऽश्रयो नास्ति । चेतनभेदे मानाभावादनुभवस्मृत्योश्चैकाश्रयत्वस्य प्रसिद्धत्वादित्यर्थः ।
ज्ञानस्मृत्योराश्रयापेक्षा विषयापेक्षा वा नास्तीत्याशङ्क्याबाधितप्रसिद्धिविरोधान्मैवमित्याह –
न चेति ॥१२॥