माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
पादा इति पादविदो विषया इति तद्विदः ।
लोका इति लोकविदो देवा इति च तद्विदः ॥ २१ ॥

एकस्याऽऽत्मनो विश्वादयः पादाः सर्वव्यवहारहेतवो भवन्तीत्यपि कल्पनामात्रम्। निरंशस्याऽऽत्मनोंऽशभेदानुपपत्तेरित्याह –

पादा इतीति ।

वात्स्यायन प्रभृतीनां कल्पनां कथयति –

विषया इतीति ।

शब्दादयो विषया भूयो भूयो भुज्यमानास्तत्त्वमिति विभ्रममात्रम्। “विषस्य विषयाणां च दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति विषयाः स्मरणादपि” इति विषयानुसन्धानस्य निन्दितत्वात्तेषां पारमार्थिकतत्त्वभावानुपपत्तेरित्यर्थः।

भूर्भुवः स्वरिति त्रयो लोका वस्तुभूताः सन्तीति –

पौराणिकाः ।

तदपि कल्पनामात्रम्।

स्थानभेदेन त्रित्वे तदानन्त्यस्य दुरुत्तरत्वात् स्वातन्त्र्यस्य चासिद्धत्वादित्याह –

लोका इतीति ।

अग्नीन्द्रादयो देवास्तत्तत्फलदातारो नेश्वरस्तथेति – देवताकाण्डीयाः । तदपि कल्पनामात्रम्। अस्मदादिप्रयत्नमपेक्ष्य फलदातृत्वे तेषां भृत्येभ्यो विशेषाभावप्रसङ्गात्। स्वातन्त्र्येणोपकारकत्वे तदाराधनवैयर्थ्यात्।

तद्भक्तानामपि विपत्तिदर्शनात् तत्प्रसादस्याकिञ्चित्करत्वादित्याह –

देवा इति चेति ॥२१॥