किं च किमिदं नानाभूतं द्वैतमात्मतादात्म्येन वा सिद्ध्यति, स्वातन्त्र्येण वेति विवेक्तव्यम्। नाऽऽद्य इत्याह –
नाऽऽत्मभावेनेति ।
इदं हि नानाभूतं द्वैतं नाऽऽत्मतादात्म्येन सेद्धुमर्हति। जडाजडयोर्विरुद्धस्वभावयोस्तादात्म्यायोगात्। भेदादिशून्यात्मतादात्म्ये च द्वैतस्य नानात्वासिद्धेरित्यर्थः।
द्वितीयं दूषयति –
न स्वेनेति ।
स्वेन सत्ताप्रतित्योरन्यानपेक्षतालक्षणस्वातन्त्र्येणापि नेदं द्वैतं सेद्धुं पारयति। तथा स्वातन्त्र्ये सत्यात्मत्वप्रसङ्गादनात्मनोऽद्वैतत्वापातादित्यर्थः। किं च किमिदं द्वैतमन्योन्यं पृथगपृथग्वेति विवेक्तव्यम्।
नाऽऽद्य इत्याह –
न पृथगिति ।
न हि किञ्चिदपि द्वैतं परस्परं पृथगेव सिध्यति पृथक्त्वस्य धर्मिप्रतियोगिरूपावच्छिन्नत्वेनान्योन्याश्रयत्वाद्धर्मत्वस्वरूपत्वयोर्दुर्वचनत्वादित्यर्थः । नापि किञ्चिदन्योन्यमपृथग्भूत्वा सिध्यति।
घटपटादिशब्दानां पर्यायत्वप्रसङ्गाद् व्यवहारलोपापातादित्याह –
नापृथगिति ।
अतो वास्तवाकारेण सर्वथा निरूपणासहमेव द्वैतमिति फलितमाह –
इति तत्त्वेति ।
यदुक्तमद्वयता शिवेति; तत्र हेत्वन्तरोपन्यासपरत्वं श्लोकस्य दर्शयति –
कुतश्चेति ।
तदेव स्फुटयति –
नानाभूतमित्यादिना ।
नानाभूतमित्यस्य पर्यायोपदानं पृथक्त्वमिति।
तस्य भयकारणत्वं प्रकटयति –
अन्यस्येति ।
तत्र व्याघ्रचोरादाविति यावत्।
तद्भयकारणं भेददर्शनद्वये वस्तुनि नास्तीत्याह –
न हीति ।
अध्यस्तमधिष्ठानरूपेण तत्त्वतो निरूप्यमाणमसदेव भवतीत्यत्र दृष्टान्तमाह –
यथेति ।
प्रदीपप्रकाशेनाधिष्ठानमात्रतया समारोपितः सर्पो यदा निरूप्यते तदा नासौ तद्व्यतिरेकेण सिध्यति। तथा जगदपीदं तदात्मस्वरूपेण निरूप्यमाणं नान्यत्वेन सिध्येदित्यर्थः।
एवं प्रथमपादं व्याख्याय द्वितीयपादं व्याचष्टे –
नापीति ।
कदाचिदपीति ।
कल्पनावास्थायाः प्रागूर्ध्वं चेत्यर्थः।
न पृथगित्यस्यार्थमाह –
तथेति ।
पृथक्त्वस्यान्योन्याश्रयत्वेन दुर्वचनत्वात्। वैधर्म्योदाहरणं तु प्रातीतिकं पृथक्त्वमधिकृत्याविरुद्धम्।
नापृथगित्यादि व्याकरोति –
अत इति ।
द्वैतस्य प्रागुक्तन्यायेनासत्त्वान्न तदन्योन्यं वा परेणाऽऽत्मना वा सहापृथग्भूत्वा सेद्धुमर्हति। अतो दुर्निरूपत्वान्न किञ्चिद् द्वैतं नामास्तीति ब्रह्मविदां मतमित्यर्थः।
दृष्टं हि द्वैतं भयहेतुस्तदस्पृष्टं पुनरद्वैतमभयमेवेत्युपसंहरति –
अत इति ॥३४॥