माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् ।
अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६ ॥
यस्मात्सर्वानर्थोपशमरूपत्वादद्वयं शिवमभयम् , अतः एवं विदित्वैनम् अद्वैते स्मृतिं योजयेत् ; अद्वैतावगमायैव स्मृतिं कुर्यादित्यर्थः । तच्च अद्वैतम् अवगम्य ‘अहमस्मि परं ब्रह्म’ इति विदित्वा अशनायाद्यतीतं साक्षादपरोक्षादजमात्मानं सर्वलोकव्यवहारातीतं जडवत् लोकमाचरेत् ; अप्रख्यापयन्नात्मानमहमेवंविध इत्यभिप्रायः ॥

मिथ्याज्ञानप्रचयसंस्काराद्वेदान्तार्थतात्पर्यवतां पण्डितानामपि नाद्वैते प्रत्ययदार्ढ्यं सिध्यतीत्याह –

तस्मादिति ।

शास्त्रादद्वैतमवगम्य स्मृतिसन्ततिं कुर्वतो लोकानुवर्तने विधिनियममाह –

अद्वैतमिति ।

तस्मादित्यस्यार्थमाह –

यस्मादिति ।

एवमिति निर्विकल्पत्वादिपरामर्शः। विदित्वा शास्त्रतोऽवगम्येत्यर्थः।

अद्वैतावगतिदार्ढ्यार्थं स्मृतिसन्ततिकर्तव्यतायां नियमविधिमभ्यनुजानाति –

अद्वैत इति ।

अद्वैतमित्याद्युत्तरार्धं विभजते –

तच्चेति ।

जडसदृशस्य कथं लोकाचरणमबुद्धिपूर्वकारित्यादित्याशङ्क्याऽऽह –

सर्वलोकेति ।

लौकिकव्यवहारानतीत्य विदुषो जडवदाचरणं किदृशमित्यपेक्षायां चतुर्थं पादमनूद्य तात्पर्यमाह –

जडवदिति ।

एवं विधोऽहमित्यात्मानं विद्याभिजनादिभिरप्रख्यापयञ्जडवदेव विद्वाल्लोकमाचरेदिति योजना ॥३६॥