माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ।
तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ ३८ ॥
बाह्यं पृथिव्यादि तत्त्वमाध्यात्मिकं च देहादिलक्षणं रज्जुसर्पादिवत्स्वप्नमायादिवच्च असत् , ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इत्यादिश्रुतेः । आत्मा च सबाह्याभ्यन्तरो ह्यजोऽपूर्वोऽनपरोऽनन्तरोऽबाह्यः कृत्स्नः तथा आकाशवत्सर्वगतः सूक्ष्मोऽचलो निर्गुणो निष्कलो निष्क्रियः ‘तत्सत्यं स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति श्रुतेः, इत्येवं तत्त्वं दृष्ट्वा तत्त्वीभूतस्तदारामो न बाह्यरमणः ; यथा अतत्त्वदर्शी कश्चित्तमात्मत्वेन प्रतिपन्नश्चित्तचलनमनु चलितमात्मानं मन्यमानः तत्त्वाच्चलितं देहादिभूतमात्मानं कदाचिन्मन्यते प्रच्युतोऽहमात्मतत्त्वादिदानीमिति, समाहिते तु मनसि कदाचित्तत्त्वभूतं प्रसन्नमात्मानं मन्यते इदानीमस्मि तत्त्वीभूत इति ; न तथा आत्मविद्भवेत् , आत्मन एकरूपत्वात् , स्वरूपप्रच्यवनासम्भवाच्च । सदैव ब्रह्मास्मीत्यप्रच्युतो भवेत्तत्त्वात् , सदा अप्रच्युतात्मतत्त्वदर्शनो भवेदित्यभिप्रायः ; ‘शुनि चैव श्वपाके च’ (भ. गी. ५ । १८) ‘समं सर्वेषु भूतेषु’ (भ. गी. १३ । २७) इत्यादिस्मृतेः ॥

अहमेव परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चिदिति स्मृतिसन्ततिकरणमपि न कालविशेषनियतं किं तु नैरन्तर्येण कर्तव्यमित्याह –

तत्त्वमिति ।

आध्यात्मिकं शरीरादि कल्पितं तत्त्वमधिष्ठानमात्रं दृष्ट्वा बाह्यतो देहाद् बहिरवस्थितं पृथिव्यादि च कल्पितत्वेनावस्तुत्वादधिष्ठानमात्रमेवेत्यनुभूय स्वयमपि द्रष्टा परमार्थवस्तुस्वभावमापन्नस्तत्रैवाऽऽसक्तचेता बाह्येभ्यो विषयेभ्यो व्यावृत्तबुद्धिस्तस्मिन्नेव तत्त्वे परमार्थभूते प्रतिष्ठितस्तद्दर्शननिष्ठः स्यादित्यर्थः।

पृथिव्यादेश्च प्रत्येकं परमार्थत्वसम्भवे कथमद्वैतनिष्ठा सिद्ध्येदित्याशङ्क्य व्याचष्टे –

बाह्यमित्यादिना ।

किं तदुभयोस्तत्त्वं तदाह –

रज्जुसर्पवदिति ।

उक्तस्य विकारजातस्यासत्त्वे प्रमाणमाह –

वाचारम्भणमिति ।

द्रष्टुरात्मनोऽपि दृश्यप्रतियोगित्वात्तुल्यं वाचारम्भणत्वमित्याशङ्क्याऽऽह –

आत्मा चेति ।

भवतु परस्याऽऽत्मनस्तत्तदागमवचननिर्देशादुक्तलक्षणत्वं तथाऽपि द्रष्टुरात्मनो न यथोक्तरूपत्वमित्याशङ्क्याऽऽह –

तत्सत्यमिति ।

विशेषणानि तु प्राचीनानि तत्तदागमोपात्तान्यपुनरुक्तानि।

द्वितीयार्धं व्याचष्टे –

इत्येवमिति ।

आत्मारामत्वं कथमित्याशङ्क्य बाह्यविषयासक्तिं त्यक्त्वा प्रत्यगात्मन्येव परितृप्तत्वादित्याह –

न बाह्येति ।

तत्त्वादप्रच्युतो भवतीत्येतद्व्यतिरेकमुखेन व्याकरोति –

यथेत्यादिना ।

अतत्त्वदर्शीति च्छेदः।

आत्मविदो नाव्यवस्थितमात्मदर्शनमित्यत्र हेतुमाह –

आत्मन इति ।

सति स्वरूपे स्वरूपात्प्रच्युतेरप्रसक्तत्वात्तत्प्रतिषेधो युक्तो न भवतीत्याशङ्क्याऽऽह –

सदेति ।

वस्तुनः सदैकरूपत्वे स्मृतिमुदाहरति –

शुनि चेति ।

समदर्शिनः सदैकरूपवस्तुदर्शिन एव पण्डिता नान्ये तथेत्यर्थः।

स्वरूपाप्रच्यवने च स्मृतिं दर्शयति –

सममिति ।

तत्र हि विनश्यत्स्वविनश्यन्तमिति स्वरूपाप्रच्यवनमुत्तम् ॥३८॥