माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते ।
प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ १ ॥
ओङ्कारनिर्णये उक्तः प्रपञ्चोपशमः शिवोऽद्वैत आत्मेति प्रतिज्ञामात्रेण, ‘ज्ञाते द्वैतं न विद्यते’ (मा. का. १ । १८) इति च । तत्र द्वैताभावस्तु वैतथ्यप्रकरणेन स्वप्नमायागन्धर्वनगरादिदृष्टान्तैर्दृश्यत्वाद्यन्तवत्त्वादिहेतुभिस्तर्केण च प्रतिपादितः । अद्वैतं किमागममात्रेण प्रतिपत्तव्यम् , आहोस्वित्तर्केणापीत्यत आह — शक्यते तर्केणापि ज्ञातुम् ; तत्कथमित्यद्वैतप्रकरणमारभ्यते । उपास्योपासनादिभेदजातं सर्वं वितथम् , केवलश्चात्मा अद्वयः परमार्थ इति स्थितमतीते प्रकरणे ; यतः उपासनाश्रितः उपासनामात्मनो मोक्षसाधनत्वेन गतः उपासकोऽहं ममोपास्यं ब्रह्म । तदुपासनं कृत्वा जाते ब्रह्मणीदानीं वर्तमानः अजं ब्रह्म शरीरपातादूर्ध्वं प्रतिपत्स्ये प्रागुत्पत्तेश्चाजमिदं सर्वमहं च । यदात्मकोऽहं प्रागुत्पत्तेरिदानीं जातो जाते ब्रह्मणि च वर्तमान उपासनया पुनस्तदेव प्रतिपत्स्ये इत्येवमुपासनाश्रितो धर्मः साधकः येनैवं क्षुद्रब्रह्मवित् , तेनासौ कारणेन कृपणो दीनोऽल्पकः स्मृतो नित्याजब्रह्मदर्शिभिर्महात्मभिरित्यभिप्रायः, ‘यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इत्यादिश्रुतेस्तलवकाराणाम् ॥

तर्कावष्टम्भेन द्वैतवैतथ्यनिरूपणं परिसमाप्याद्वैतं पारमार्थिकमपि तर्कतः सम्भावयितुं प्रकरणान्तरं प्रारिप्सुरुपास्योपासकभेददृष्टिं तावदपवदति –

उपासनेति ।

देहस्य धारणाद्धर्मो जीवो भूतसङ्घाताकारेण जाते ब्रह्मणि तदभिमानित्वेन वर्तते। स प्रागुत्पत्तेरजं सर्वमित्येवं कालावच्छिन्नं वस्तु मन्यते। स पुनरुपासनां पुरुषार्थसाधनत्वेनाऽऽश्रितस्तदेव ब्रह्म प्रतिपत्स्ये शरीरपातादूर्ध्वमित्येवं यतो मिथ्याज्ञानवानवतिष्ठते तेनासौ कृपणोऽल्पको ब्रह्मविद्भिः स्मृतश्चिन्तित इत्यर्थः।

प्रकरणान्तरमवतारयन् वृत्तमनुद्रवति –

ओङ्कारेति ।

तस्य हि निर्णये प्रथमे प्रकरणे प्रपञ्चोपशमः शिवोऽद्वैत इति विशेषणैरात्मा प्रतिज्ञामात्रेणाद्वितीयो व्याख्यात इत्यर्थः।

द्वितीयप्रकरणार्थं संक्षिप्यानुवदति –

ज्ञात इति ।

तत्रैवाऽऽद्ये प्रकरणे ‘ज्ञाते द्वैतं न विद्यत’(मा. का. १ । १८) इत्यत्र प्रतिज्ञामात्रेण द्वैताभाव उक्तः। स तु द्वितीयेन प्रकरणेन हेतुदृष्टान्तात्मकेन तर्केण च प्रतिपादितो, नात्र प्रतिपादयितव्यमवशिष्टमस्तीत्यर्थः।

तृतीयं प्रकरणमाकाङ्क्ष्यापूर्वकमवतारयति –

अद्वैतमिति ।

“नैषा तर्केण मतिरापनेया”(क. उ. १ । २ । ९) इति श्रुतेरद्वैतं कथं तर्केण ज्ञातुं शक्यमित्याक्षिपति –

तत्कथमिति ।

स्वतन्त्रतर्काप्रवेशेऽपि तस्मिन्नागमिकतर्कस्य सहकारितया सम्भावनाहेतुत्वात् तर्केणापि ज्ञातुं शक्यमिति व्यवहारोपपत्तिरिति मत्वाऽऽह –

अद्वैतेति ।

यदि तर्केणाद्वैतं सम्भावयितुं प्रकरणमारभ्यते तर्हि किमित्युपासकनिन्दा प्रथमं प्रस्तूयते, तत्राऽऽह –

उपास्येति ।

उक्तवक्ष्यमाणविरोधित्वादुपासकस्य तन्निन्दा प्रकृतोपयोगिनीत्यर्थः।

कथं तर्हि तत्र तत्राजत्वमात्मनो दर्शयन्ती श्रुतिर्घटिष्यते, तत्राऽऽह –

प्रागिति ।

प्रागवस्थायां सर्वमिदमजमहं च तथेत्युपासको यतो मन्यतेऽतश्च प्रागवस्थब्रह्मविषया भविष्यत्यजत्वश्रुतिरित्यर्थः।

कार्यस्थित्यवस्थायां यदि ब्रह्म तन्मात्रमिष्टं तर्हि किमुपासनया प्राप्तव्यमित्याशङ्क्याऽऽह –

यदात्मक इति ।

इदानीमुत्पत्त्यवस्थायां जातो जाते ब्रह्मणि स्थित्यवस्थायां वर्तमानोऽहं प्रागुत्पत्तेर्यदात्मकः सन्नासं तदेव पुनः प्रलयावस्थायामुपासनया प्रतिपत्स्ये, तत्क्रतुन्यायादिति सम्बन्धः।

तलवकाराणां शाखायामुपास्यस्य ब्रह्मत्वनिषेधदर्शनाच्चोपासकनिन्दा युक्तेत्याह –

यद्वाचेति ।

अनभ्युदितमनभिप्रकाशितम्, अभ्युद्यतेऽभिप्राकाश्यते, उपासते वाचा विषयीकुर्वन्तीत्यर्थः। आदिशब्देन ‘यन्मनसा’ (के. उ. १ । ६) इत्यादि गृह्यते॥१॥