तर्कावष्टम्भेन द्वैतवैतथ्यनिरूपणं परिसमाप्याद्वैतं पारमार्थिकमपि तर्कतः सम्भावयितुं प्रकरणान्तरं प्रारिप्सुरुपास्योपासकभेददृष्टिं तावदपवदति –
उपासनेति ।
देहस्य धारणाद्धर्मो जीवो भूतसङ्घाताकारेण जाते ब्रह्मणि तदभिमानित्वेन वर्तते। स प्रागुत्पत्तेरजं सर्वमित्येवं कालावच्छिन्नं वस्तु मन्यते। स पुनरुपासनां पुरुषार्थसाधनत्वेनाऽऽश्रितस्तदेव ब्रह्म प्रतिपत्स्ये शरीरपातादूर्ध्वमित्येवं यतो मिथ्याज्ञानवानवतिष्ठते तेनासौ कृपणोऽल्पको ब्रह्मविद्भिः स्मृतश्चिन्तित इत्यर्थः।
प्रकरणान्तरमवतारयन् वृत्तमनुद्रवति –
ओङ्कारेति ।
तस्य हि निर्णये प्रथमे प्रकरणे प्रपञ्चोपशमः शिवोऽद्वैत इति विशेषणैरात्मा प्रतिज्ञामात्रेणाद्वितीयो व्याख्यात इत्यर्थः।
द्वितीयप्रकरणार्थं संक्षिप्यानुवदति –
ज्ञात इति ।
तत्रैवाऽऽद्ये प्रकरणे ‘ज्ञाते द्वैतं न विद्यत’(मा. का. १ । १८) इत्यत्र प्रतिज्ञामात्रेण द्वैताभाव उक्तः। स तु द्वितीयेन प्रकरणेन हेतुदृष्टान्तात्मकेन तर्केण च प्रतिपादितो, नात्र प्रतिपादयितव्यमवशिष्टमस्तीत्यर्थः।
तृतीयं प्रकरणमाकाङ्क्ष्यापूर्वकमवतारयति –
अद्वैतमिति ।
“नैषा तर्केण मतिरापनेया”(क. उ. १ । २ । ९) इति श्रुतेरद्वैतं कथं तर्केण ज्ञातुं शक्यमित्याक्षिपति –
तत्कथमिति ।
स्वतन्त्रतर्काप्रवेशेऽपि तस्मिन्नागमिकतर्कस्य सहकारितया सम्भावनाहेतुत्वात् तर्केणापि ज्ञातुं शक्यमिति व्यवहारोपपत्तिरिति मत्वाऽऽह –
अद्वैतेति ।
यदि तर्केणाद्वैतं सम्भावयितुं प्रकरणमारभ्यते तर्हि किमित्युपासकनिन्दा प्रथमं प्रस्तूयते, तत्राऽऽह –
उपास्येति ।
उक्तवक्ष्यमाणविरोधित्वादुपासकस्य तन्निन्दा प्रकृतोपयोगिनीत्यर्थः।
कथं तर्हि तत्र तत्राजत्वमात्मनो दर्शयन्ती श्रुतिर्घटिष्यते, तत्राऽऽह –
प्रागिति ।
प्रागवस्थायां सर्वमिदमजमहं च तथेत्युपासको यतो मन्यतेऽतश्च प्रागवस्थब्रह्मविषया भविष्यत्यजत्वश्रुतिरित्यर्थः।
कार्यस्थित्यवस्थायां यदि ब्रह्म तन्मात्रमिष्टं तर्हि किमुपासनया प्राप्तव्यमित्याशङ्क्याऽऽह –
यदात्मक इति ।
इदानीमुत्पत्त्यवस्थायां जातो जाते ब्रह्मणि स्थित्यवस्थायां वर्तमानोऽहं प्रागुत्पत्तेर्यदात्मकः सन्नासं तदेव पुनः प्रलयावस्थायामुपासनया प्रतिपत्स्ये, तत्क्रतुन्यायादिति सम्बन्धः।
तलवकाराणां शाखायामुपास्यस्य ब्रह्मत्वनिषेधदर्शनाच्चोपासकनिन्दा युक्तेत्याह –
यद्वाचेति ।
अनभ्युदितमनभिप्रकाशितम्, अभ्युद्यतेऽभिप्राकाश्यते, उपासते वाचा विषयीकुर्वन्तीत्यर्थः। आदिशब्देन ‘यन्मनसा’ (के. उ. १ । ६) इत्यादि गृह्यते॥१॥