माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् ।
यथा न जायते किञ्चिज्जायमानं समन्ततः ॥ २ ॥
सबाह्याभ्यन्तरमजमात्मानं प्रतिपत्तुमशक्नुवन् अविद्यया दीनमात्मानं मन्यमानः जातोऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन्ब्रह्म प्रतिपत्स्ये इत्येवं प्रतिपन्नः कृपणो भवति यस्मात् , अतो वक्ष्यामि अकार्पण्यम् अकृपणभावमजं ब्रह्म । तद्धि कार्पण्यास्पदम् , ‘यत्रान्योऽन्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) ‘मर्त्यं तत्’ ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इत्यादिश्रुतिभ्यः । तद्विपरीतं सबाह्याभ्यन्तरमजमकार्पण्यं भूमाख्यं ब्रह्म ; यत्प्राप्याविद्याकृतसर्वकार्पण्यनिवृत्तिः, तदकार्पण्यं वक्ष्यामीत्यर्थः । तत् अजाति अविद्यमाना जातिरस्य । समतां गतं सर्वसाम्यं गतम् ; कस्मात् ? अवयववैषम्याभावात् । यद्धि सावयवं वस्तु, तदवयववैषम्यं गच्छज्जायत इत्युच्यते ; इदं तु निरवयवत्वात्समतां गतमिति न कैश्चिदवयवैः स्फुटति ; अतः अजाति अकार्पण्यं समन्ततः समन्तात् , यथा न जायते किञ्चित् अल्पमपि न स्फुटति रज्जुसर्पवदविद्याकृतदृष्ट्या जायमानं येन प्रकारेण न जायते सर्वतः अजमेव ब्रह्म भवति, तथा तं प्रकारं शृण्वित्यर्थः ॥

भेददर्शिनमुपासकमद्वैतविरोधिनं निन्दित्वा सम्प्रत्यद्वैतप्रतिज्ञां करोति –

अत इति ।

जातिर्जन्म, तद्रहितमजाति।

तत्र हेतुमाह –

समतामिति ।

जन्मराहित्यं साधयति –

यथेति ।

अतः शब्दार्थमाह –

सबाह्येति ।

प्रतिज्ञाभागं विभजते –

अकृपणेति ।

तदेव व्यतिरेकमुखेण स्फोरयति –

तद्धीति ।

दर्शनादिविशेषव्यवहारगोचरीभूतं कार्यजातं परिच्छिन्नं नाशि चोच्यते। तदेव कृपणत्वालम्बनमित्यर्थः।

तच्च मिथ्याभूतमित्यत्र प्रमाणमाह –

वाचारम्भणमिति ।

कार्पण्यमुक्त्वा तदभावरूपमकार्पण्यं प्रकटयति –

तद्विपरीतमिति ।

प्राप्य ज्ञात्वेति यावत्।

द्वितीयपादं व्याचष्टे –

तदजातीत्यादिना ।

सर्वात्मना साम्यं निर्विशेषत्वं गतमित्यत्र हेतुं पृच्छति –

कस्मादिति ।

निर्विशेषत्वे हेतुमाह –

अवयवेति ।

हेतुमेव प्रकटयन् व्यतिरेकमुखेणाजत्वं प्रपञ्चयति –

यद्धीत्यादिना ।

समन्तत इति पूर्णत्वसङ्कीर्तनम्।

द्वितीयार्धं व्याचष्टे –

यथेत्यादिना ।

यथा रज्ज्वां सर्पो भ्रान्त्या जायते तथा सर्वं भ्रान्तिदृष्ट्या जायमानत्वेन भासमानमपि यथा येन प्रकारेण वस्तुतो न जायते किं तु सर्वतो देशतः कालतो वस्तुतश्च पूर्णं कूटस्थमेव वस्तु भवति तथा तं प्रकारमिति सम्बन्धः॥२॥