माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते ।
न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५ ॥
सर्वदेहेष्वात्मैकत्वे एकस्मिन् जननमरणसुखदुःखादिमत्यात्मनि सर्वात्मनां तत्सम्बन्धः क्रियाफलसाङ्कर्यं च स्यादिति ये त्वाहुर्द्वैतिनः, तान्प्रतीदमुच्यते — यथा एकस्मिन् घटाकाशे रजोधूमादिभिः युते संयुक्ते, न सर्वे घटाकाशादयः तद्रजोधूमादिभिः संयुज्यन्ते, तद्वत् जीवाः सुखादिभिः । ननु, एक एवात्मा ; बाढम् ; ननु न श्रुतं त्वया आकाशवत्सर्वसङ्घातेष्वेक एवात्मेति ? यद्येक एवात्मा, तर्हि सर्वत्र सुखी दुःखी च स्यात् ; न चेदं साङ्ख्यस्य चोद्यं सम्भवति ; न हि साङ्ख्य आत्मनः सुखदुःखादिमत्त्वमिच्छति, बुद्धिसमवायाभ्युपगमात्सुखदुःखादीनाम् ; न चोपलब्धिस्वरूपस्यात्मनो भेदकल्पनायां प्रमाणमस्ति । भेदाभावे प्रधानस्य पारार्थ्यानुपपत्तिरिति चेत् , न ; प्रधानकृतस्यार्थस्यात्मन्यसमवायात् ; यदि हि प्रधानकृतो बन्धो मोक्षो वा अर्थः पुरुषेषु भेदेन समवैति, ततः प्रधानस्य पारार्थ्यमात्मैकत्वे नोपपद्यत इति युक्ता पुरुषभेदकल्पना ; न च साङ्ख्यैर्बन्धो मोक्षो वार्थः पुरुषसमवेतोऽभ्युपगम्यते, निर्विशेषाश्च चेतनमात्रा आत्मानोऽभ्युपगम्यन्ते ; अतः पुरुषसत्तामात्रप्रयुक्तमेव प्रधानस्य पारार्थ्यं सिद्धम् , न तु पुरुषभेदप्रयुक्तमिति ; अतः पुरुषभेदकल्पनायां न प्रधानस्य पारार्थ्यं हेतुः ; न चान्यत्पुरुषभेदकल्पनायां प्रमाणमस्ति साङ्‍ख्यानाम् । परसत्तामात्रमेव चैतन्निमित्तीकृत्य स्वयं बध्यते मुच्यते च प्रधानम् ; परश्चोपलब्धिमात्रसत्तास्वरूपेण प्रधानप्रवृत्तौ हेतुः, न केनचिद्विशेषेणेति, केवलमूढतयैव पुरुषभेदकल्पना वेदार्थपरित्यागश्च । ये त्वाहुर्वैशेषिकादयः इच्छादय आत्मसमवायिन इति ; तदप्यसत् , स्मृतिहेतूनां संस्काराणामप्रदेशवत्यात्मन्यसमवायात् , आत्ममनःसंयोगाच्च स्मृत्युत्पत्तेः स्मृतिनियमानुपपत्तिः, युगपद्वा सर्वस्मृत्युत्पत्तिप्रसङ्गः । न च भिन्नजातीयानां स्पर्शादिहीनानामात्मनां मनआदिभिः सम्बन्धो युक्तः । न च द्रव्याद्रूपादयो गुणाः कर्मसामान्यविशेषसमवाया वा भिन्नाः सन्ति । परेषां यदि ह्यत्यन्तभिन्ना एव द्रव्यात्स्युः इच्छादयश्चात्मनः, तथा सति द्रव्येण तेषां सम्बन्धानुपपत्तिः । अयुतसिद्धानां समवायलक्षणः सम्बन्धो न विरुध्यत इति चेत् , न ; इच्छादिभ्योऽनित्येभ्य आत्मनो नित्यस्य पूर्वसिद्धत्वान्नायुतसिद्धत्वोपपत्तिः । आत्मना अयुतसिद्धत्वे च इच्छादीनामात्मगतमहत्त्ववन्नित्यत्वप्रसङ्गः । स चानिष्टः, आत्मनोऽनिर्मोक्षप्रसङ्गात् । समवायस्य च द्रव्यादन्यत्वे सति द्रव्येण सम्बन्धान्तरं वाच्यम् , यथा द्रव्यगुणयोः । समवायो नित्यसम्बन्ध एवेति न वाच्यमिति चेत् , तथा सति समवायसम्बन्धवतां नित्यसम्बन्धप्रसङ्गात्पृथक्त्वानुपपत्तिः । अत्यन्तपृथक्त्वे च द्रव्यादीनां स्पर्शवदस्पर्शद्रव्ययोरिव षष्ठ्यर्थानुपपत्तिः । इच्छाद्युपजनापायवद्गुणवत्त्वे च आत्मनोऽनित्यत्वप्रसङ्गः । देहफलादिवत्सावयवत्वं विक्रियावत्त्वं च देहादिवदेवेति दोषावपरिहार्यौ । यथा त्वाकाशस्य अविद्याध्यारोपितघटाद्युपाधिकृतरजोधूममलवत्त्वादिदोषवत्त्वम् , तथा आत्मनः अविद्याध्यारोपितबुद्ध्याद्युपाधिकृतसुखदुःखादिदोषवत्त्वे बन्धमोक्षादयो व्यावहारिका न विरुध्यन्ते ; सर्ववादिभिरविद्याकृतव्यवहाराभ्युपगमात् परमार्थानभ्युपगमाच्च । तस्मादात्मभेदपरिकल्पना वृथैव तार्किकैः क्रियत इति ॥

इदानीमद्वैतस्य व्यवस्थानुपपत्त्या विरोधमाशङ्क्य परिहतति –

यथैकस्मिन्निति ।

उक्तदृष्टान्तवशादेकस्मिञ्जीवे सुखादिसंयुक्ते सत्यपरे जीवास्तैरेव सुखादिभिर्न संयुज्यन्त औपाधिकभेदादित्याह –

तldत्वदिति ।

श्लोकव्यावर्त्यामाशङ्कां दर्शयति –

सर्वदेहेष्विति ।

ऐकात्म्ये कर्तर्येकस्मिन् कर्तारः सर्वे, भोक्तरि चैकस्मिन् भोक्तारः सर्वे भवेयुरित्यव्यवस्थान्तरमाह –

क्रियेति ।

व्यवस्थानुपपत्त्या द्वैतमेष्टव्यमिति वदन्तं प्रत्युत्तरत्वेन श्लोकमवतारयति –

तान् प्रतीति ।

किमिदमैकात्म्ये साङ्कर्यम् ? किमेकस्मिञ्जीवे व्यवस्थितेन सुखादिना जीवान्तराणां तद्वत्त्वं स्यादित्युच्यते किं वा सर्वोपाधिष्वात्मैक्यात्तस्य स्वरूपेण सर्वसुखादिमत्त्वं स्यादित्यापाद्यते, तत्राऽऽद्यं प्रत्याह –

तद्वदिति ।

आत्मनः सर्वत्रैकत्वात्तस्य स्वरूपेण सर्वसुखादिमत्त्वमिति द्वितीयं पक्षं विवक्षन्नाशङ्कते –

नन्विति ।

सर्वत्राऽऽत्मैकत्वमुक्तमङ्गीकरोति –

बाढमिति ।

तदेकत्वमुपपत्तिशून्यं कथमङ्गीकृतमित्याशङ्क्याऽऽह –

ननु नेति ।

यदि सर्वत्रैकत्वं नियतमिष्यते तर्हि तत्र तत्र सुखित्वं दुःखित्वम् च तस्यैवैकस्य प्रप्तमिति न व्यवस्थासिद्धिरिति चोदयति –

यद्येक एवेति ।

आत्मस्वरूपस्य सर्वत्रैकत्वेऽपि कल्पितभेदाद् व्यवस्थासिद्धिरित्यभिप्रेत्य किमिदं साङ्ख्यस्य चोद्यं किं वा वैशेषिकादेरिति विकल्प्याऽऽद्यं प्रत्याह –

न चेदमिति ।

किं चैकात्म्यं दूषयता साङ्ख्येन तद्भेदोऽभ्युपगम्यते।

स च नाभ्युपगन्तुं शक्यते तन्मानाभावादित्याह –

न चेति ।

प्रधानं हि कस्याचिद्भोगमपवर्गं च कस्यचिदादधत् पुरुषशेषमिष्यते।

तच्च पुरुषभेदाभावे नोपपद्यते तेनार्थापत्त्या पुरुषभेदः सिध्यतीति शङ्कते –

भेदेति ।

अर्थापत्तेरनुदयं वदन्नुत्तरमाह –

नेत्यादिना ।

संक्षिप्तमेवोक्तं विवृणोति –

यदि हीति ।

प्रधानस्य पारार्थ्यसामर्थ्यादेव पुरुषेषु कश्चिदतिशयो भविष्यतीत्याशङ्क्यापसिद्धान्तप्रसङ्गान्मैवमित्याह –

निर्विशेषा इति ।

किं च प्रधानस्य पारार्थ्यं परं शेषिणमपेक्षते, न तस्मिन् भेदमपि काङ्क्षते।

अतोऽन्यथाऽप्युपपत्तिरित्याह –

अत इति ।

जन्ममरणादिव्यवस्थानुपपत्त्या पुरुषभेदकल्पनमपि न युक्तं व्यधिकरणत्वादिति मत्वाऽऽह –

न चेति ।

न केवलं प्रमाणशून्या पुरुषभेदकल्पना, किं तु प्रयोजनशून्या चेत्याह –

परेति ।

ननु न पुरुषसत्तामात्रं निमित्तीकृत्य प्रधानं प्रवर्तते।

किं त्वीश्वराधिष्ठैतमिति सेश्वरवादिमतमाशङ्क्य तस्यापि पुरुषत्वाविशेषादुपलब्धिमात्रत्वमभ्युपेत्याऽऽह –

परश्चेति ।

वेदार्थो वेदप्रतिपाद्यमद्वैतम्।

द्वितीयमुत्थापयति –

ये त्विति ।

बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नव विशेषगुणाः। ते च प्रत्येकमात्मसु व्यवस्थया समवेताः स्वीक्रियन्ते। तेषां व्यवस्थानुपपत्त्या प्रतिदेहमात्मभेदसिद्धिरित्यर्थः। किं बुद्ध्यादयो रूपादिवदात्मव्यापिनः, किं वा संयोगादिवदेकदेशवृत्तयः। नाऽऽद्यः।

ज्ञानादिगुणानामाश्रयव्यापिनामाश्रयसंयुक्ते सर्वस्मिन्नपर्यायेण ज्ञाततादिव्यवहारजनकत्वप्रसङ्गादित्याह –

तदप्यसदिति ।

द्वितीये त्वेकदेशः सत्योऽसत्यो वा। प्रथमे घटादिवदात्मनः सत्यैकदेशत्वात् कार्यत्वादिप्रसङ्गः।

द्वितीये कल्पितैकदेशानामेव ज्ञानादिगुणवत्त्वमात्मनस्तु न तद्वत्त्वं सिध्यतीत्याह –

स्मृतीति ।

स्मृतिहेतवः संस्कारा भावानाख्याः तेषां ग्रहणमितरेषामुपलक्षणार्थम्। तेषामात्मनि समवायाभावात् सिद्धान्तासिद्धिरिति शेषः। किं चाऽऽत्ममनः संयोगादसमवायिकारणाज्ज्ञानानामुत्पत्तिरिष्टा।

तथा च सति ग्रहणसमये स्मृतिर्न सम्भवत्येवेति नियमो नोपपद्यते, ग्रहणकारणसंयोगेनैव स्मृत्युत्पत्तिसम्भवादित्याह –

आत्मेति ।

किं चाऽऽत्ममनसोः संयोगादेकस्मादेकस्याः स्मृतेः समुत्पत्तिसमये स्मृत्यन्तराण्यपि समुत्पद्येरन्। असमवायिकारणस्य तुल्यत्वात्। न च समुदबुद्धसंस्कारायौगपद्याद्युगपदनुत्पत्तिः।

तेषां तदुद्धोधस्य चाऽऽत्मनि विप्रतिपन्नत्वेन स्मृतिसामग्र्यन्तर्भावासम्भवादित्यभिप्रेत्याह –

युगपद्वेति ।

किं च समानजातीयानां स्पर्शादिमतां च परस्परं सम्बन्धो दृष्टः। यथा मल्लानां मेषाणां रज्जुघटादीनां च।

तदुभयाभावादात्मनां मनाअदिभिः सम्बन्धासिद्धेर्नोक्तादसमवायिकारणादुबुद्ध्यादिगुणोत्पत्तिः सिध्यतीत्याह –

न चेति ।

गुणादीनां साजात्यस्य स्पर्शादिमत्त्वस्य चाभावेऽपि द्रव्येण सम्बन्धवदात्मनो मनआदिभिः सम्बन्धः सिध्येदिति चेन्नेत्याह –

न चेति ।

स्वतन्त्रं सन्मात्रं द्रव्यशब्देनात्र विवक्षितम्। न ततो भेदेन गुणादयो वेदान्तिमते विद्यन्ते। शुक्लः पटः खण्डो गौरित्यादिसामानाधिकरण्यदर्शनात्। द्रव्यमेव तु कल्पनया तत्तदाकारेण भातीत्यभ्युपगमात्। अतो दृष्टान्तासम्प्रतिपत्तिरित्यर्थः।

विपक्षे दोषमाह –

यदि हीति ।

गुणादयो द्रव्यादत्यन्तभिन्ना हिमवद्विन्ध्ययोरिव यदि स्युर्यदि चाऽऽत्मनः सकाशादिच्छादयोऽत्यन्तं भिन्ना भवेयुस्तदा गुणादीनां द्रव्येण तद्वदेव सम्बन्धानुपपत्तेः, इच्छादीनां चाऽऽमना तदयोगात् पारतन्त्र्यासिद्धिरित्यर्थः।

अत्यन्तभिन्नानामपि समवायसम्बन्धात् पारतन्त्र्योपपत्तिरिति शङ्कते –

अयुतेति ।

किमिदमयुतसिद्धत्वमपृथक्कालत्वं किं वाऽपृथग्देशत्वमुतापृथक्स्वभावत्वमहोस्वित् संयोगविभागायोग्यत्वम् ? नाऽऽद्यः। विकल्पासहत्वात्।

किमिच्छाद्यपेक्षयाऽऽत्मनोऽपृथक्कालत्वम् किं वाऽऽत्मापेक्षयेच्छादीनामिति विकल्प्याऽऽद्यं दूषयति –

नेत्यादिना ।

यद्यात्मना सहापृथक्कालत्वमिच्छादीनां तदाऽऽत्मनोऽनादित्वात् तद् गतमहत्त्ववन्नित्यत्वं तेषामापततीत्याह –

आत्मनेति ।

प्रसङ्गस्येष्टत्वमाशङ्क्य निराचष्टे –

स चेति ।

न चापृथग्देशत्वमयुतसिद्धत्वम्। तन्तुपटादीनां पृथग्देशानामयुतसिद्ध्यभावप्रसङ्गात्। न चापृथक्स्वभावत्वमयुतसिद्धत्वम्। भेदपक्षपरिक्षयात्। न च संयोगविभागायोग्यत्वमयुतसिद्धत्वम्।

देवदत्तस्य हस्तादीनां चायुतसिद्ध्यभावापातादित्यभिप्रेत्य समवायस्य द्रव्यादनन्यत्वे तावन्मात्रत्वेन तत्सम्बन्धत्वव्याघातात्; ततोऽन्यत्वे तेन सम्बन्धान्तरमस्ति न वेति विकल्प्याऽऽद्ये स्यादनवस्थेति मत्वाऽऽह –

समवायस्येति ।

द्वितीयं शङ्कते –

समवाय इति ।

न वाच्यं सम्बन्धान्तरमिति शेषः।

समवायस्य नित्यसम्बन्धत्वे समवायवतां द्रव्यगुणादीनामपि तद्वत्त्वाद्भेदस्य कदाचिदप्यनुपलम्भात् पृथक्त्वप्रथानुपपत्तिरिति दूषयति –

तथा चेति ।

संयोगस्यापि समवायसाम्यं चकारेण सूच्यते।

समवायस्य समवायिभिर्गुणादीनां च द्रव्येणात्यन्तभेदे हिमवद्विन्ध्ययोरिव सम्बन्धानुपपत्तेस्तेषु परतन्त्रताव्यवहारासिद्धिरित्याह –

अत्यन्तेति ।

किं चेच्छादयो नाऽऽत्मगुणा उपजनापायवत्त्वाद्रूपादिवत्।

यद्वाऽऽत्मा नानित्यगुणवान्नित्यत्वाद् व्यतिरेकेण देहादिवदित्याह –

इच्छादीति ।

न केवलमात्मनोऽनित्यगुणत्वेऽनित्यत्वप्रसक्तिरेव दोषः।

किं त्वन्यदपि दोषद्वयं दुष्परिहरमिति बाधकान्तरमाह –

सावयवत्वमिति ।

यद्यात्मनो नेच्छादिगुणवत्त्वं तदा तस्य बन्धाभावान्मोक्षो न स्यादतो बन्धमोक्षव्यवस्थानुपपत्त्या प्रतिदेहं सुखदुःखादिविशिष्टात्मभेदसिद्धिरित्याशङ्क्याऽऽह –

यथा त्विति ।

अवस्तुत्वादविद्यायास्तत्कृतव्यवहारायोगाद्व्यावहारिकबन्धाद्यभ्युपगमासिद्धिरित्याशङ्क्याऽऽह –

सर्ववादिभिरिति ।

अविद्याकृतमनुष्यत्वाध्यारोपेण लौकिकवैदिकव्यवहारः सर्ववादिभिरिष्यते, तत्कृता च व्यवस्थाऽऽस्थीयते। तस्मादस्माकमपि तथैव सर्वमविरुद्धमित्यर्थः। परमार्थे च मोक्षे केनापि वादिना व्यवहारो नाभ्युपगम्यते।

तथा च मोक्षे परेषां व्यवहारस्यैवाभावात्तन्निर्वाहकपारमार्थिकभेदाभ्युपगमो वृथेत्याह –

परमार्थेति ।

कल्पितभेदवशादपि पुर्वोक्तसर्वव्यवस्थासौस्थ्यात् पारमार्थिकात्मभेदकल्पना प्रमाणप्रयोजनशून्येत्युपसंहरति –

तस्मादिति ॥५॥