न भेदवादानामुत्प्रेक्षामात्रमूलत्वं श्रुतिमूलत्वादित्याशङ्क्य परिहरति –
जीवात्मनोरिति ।
उत्पत्तिर्व्युत्पत्तिः सम्यग्ज्ञानम्, तदर्थोपनिषदां प्रवृत्त्यपेक्षया प्राक्प्रवृत्तकर्मकाण्डेन यत्परापरयोर्नानात्वमुक्तं तदोदनं पचतीति भविष्यत्प्रवृत्त्या तण्डुलेष्वोदनत्ववद् गौणमेव, न मुख्यभेदार्थत्वं श्रुतेर्युज्यते, भेदस्यापूर्वत्वपुरुषार्थत्वयोरभावादित्यर्थः।
श्लोकव्यावर्त्यामाशङ्कामाह –
नन्विति ।
न केवलमस्माभिरुत्प्रेक्षितमिदं, किं तु श्रुत्याऽपि दर्शितमित्यपेरर्थः।
भेदं वदन्त्याः श्रुतेस्तात्पर्यलिङ्गमभ्यासं सूचयति –
अनेकश इति ।
कर्मकाण्डे तत्तत्कामनाभेदेन नियोज्यभेदसिद्धावपि कथं जीवपरयोर्भेदः सिध्यति, परस्य तत्रानुक्तत्वादित्याशङ्क्याऽऽह –
परश्चेति ।
‘हिरण्यगर्भः समवर्तताग्र’(ऋ. सं. १० । १२१ । १) इति मन्त्रे प्रकृतो हिरण्यगर्भः सर्वनाम्ना परामृश्यते। स इमां पृथिवीं द्यामपि धृतवान्। अन्यथा गुरुत्वात्तयोरवस्थानायोगात्। न च हिरण्यगर्भातिरिक्तमीश्वरं परे बुध्यन्ते मन्त्रवर्णैः। परश्च प्रकीर्तित इति सम्बन्धः।
कर्मकाण्डार्थं ज्ञानकाण्डेनापबाध्य ज्ञानकाण्डार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यतामित्याशङ्क्य बाध्यबाधकभावनिर्धारणे कारणानवधारणान्मैवमित्याह –
तत्रेति ।
श्लोकाक्षरैरुत्तरमाह –
अत्रेत्यादिना ।
पृथक्त्वस्य गौणत्वे प्रागुक्तमेव दृष्टन्तमाह –
महाकाशेति ।
तत्रैव श्लोकसूचितमुदाहरणमाह –
यथेति ।
मुख्यत्वं हीत्यादि व्याचष्टे –
न हीति ।
भेदस्यापूर्वत्वाद्यभावान्न वाक्यानां तत्परत्वम्; तत्परातत्परयोश्च तत्परं वाक्यं बलवदिति न्यायादखण्डवाक्यार्थस्यैव सामञ्जस्यमित्यर्थः।
अद्वैतवाक्यानामपि कथमद्वैते तात्पर्यमित्याशङ्क्यापूर्वार्थत्वादुपपत्तिमत्त्वाच्चेत्याह –
इह चेति ।
अद्वैतं तावन्मानान्तरागोचरत्वादपूर्वमेकमेवाद्वितीयमिति प्रागवस्थायां ब्रह्माद्वितीयं श्रुतम्। तदेवेदं सृष्ट्वा ‘तत्सृट्वा तदेवानुप्राविशत्’(तै. उ. २ । ६ । १) इति श्रुतेरनुप्रविष्टं जीवोऽभिलप्यते। तेन जीवस्य ब्रह्मता सम्भवतीत्युपपत्त्याऽपि श्रुतेरद्वैतार्थत्वं गम्यते। सृष्ट्यादिश्रुतीनामद्वैते तात्पर्यं न सृष्ट्यादावित्यनन्तरमेव वक्ष्यते। तस्मादद्वैते श्रुतेस्तात्पर्यात्तदर्थस्यैव तात्त्विकतेत्यर्थः।
न केललमुपपत्तेरेवाद्वैते श्रुतेस्तात्पर्यं किं तु नवकृत्वोऽभ्यासादपीत्याह –
तत्त्वमिति ।
भेददृष्टेरपवादाच्च श्रुतेरद्वैते तात्पर्यं प्रतिभातीत्याह –
अन्योऽसाविति ।
आदिशब्देनाद्वैतवादीनि द्वैतनिषेधीनि च वचनान्तराणि गृह्यन्ते। एकत्वमेव प्रतिपिपादिषितमिति पूर्वेण सम्बन्धः ।
एकत्वे श्रुतेस्तात्पर्ये सिद्धे तृतीयपादावष्टम्भेन फलितमाह –
अत इति ।
श्लोकस्य साध्याहारं व्याख्यानान्तरमाह –
अथवेत्यादिना ॥१४॥