माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् ।
भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ १४ ॥
ननु श्रुत्यापि जीवपरमात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः उत्पत्त्यर्थोपनिषद्वाक्येभ्यः पूर्वं प्रकीर्तितं कर्मकाण्डे अनेकशः कामभेदतः इदङ्कामः अदःकाम इति, परश्च ‘स दाधार पृथिवीं द्याम्’ (ऋ. १० । १२१ । १) इत्यादिमन्त्रवर्णैः ; तत्र कथं कर्मज्ञानकाण्डवाक्यविरोधे ज्ञानकाण्डवाक्यार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यत इति । अत्रोच्यते — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गाः’ (बृ. उ. २ । १ । २०) ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) ‘तदैक्षत तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्याद्युत्पत्त्यर्थोपनिषद्वाक्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकीर्तितं यत् , तन्न परमार्थतः । किं तर्हि ? गौणम् ; महाकाशघटाकाशादिभेदवत् , यथा ओदनं पचतीति भविष्यद्वृत्त्या, तद्वत् । न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थकत्वमुपपद्यते, स्वाभाविकाविद्यावत्प्राणिभेददृष्ट्यनुवादित्वादात्मभेदवाक्यानाम् । इह च उपनिषत्सु उत्पत्तिप्रलयादिवाक्यैर्जीवपरात्मनोरेकत्वमेव प्रतिपिपादयिषितम् ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) इत्यादिभिः ; अत उपनिषत्स्वेकत्वं श्रुत्या प्रतिपिपादयिषितं भविष्यतीति भाविनीमिव वृत्तिमाश्रित्य लोके भेददृष्ट्यनुवादो गौण एवेत्यभिप्रायः । अथवा, ‘तदैक्षत. . . तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्याद्युत्पत्तेः प्राक् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । २) इत्येकत्वं प्रकीर्तितम् ; तदेव च ‘तत्सत्यं स आत्मा, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येकत्वं भविष्यतीति तां भविष्यद्वृत्तिमपेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानम् , तद्गौणम् ; यथा ओदनं पचतीति, तद्वत् ॥

न भेदवादानामुत्प्रेक्षामात्रमूलत्वं श्रुतिमूलत्वादित्याशङ्क्य परिहरति –

जीवात्मनोरिति ।

उत्पत्तिर्व्युत्पत्तिः सम्यग्ज्ञानम्, तदर्थोपनिषदां प्रवृत्त्यपेक्षया प्राक्प्रवृत्तकर्मकाण्डेन यत्परापरयोर्नानात्वमुक्तं तदोदनं पचतीति भविष्यत्प्रवृत्त्या तण्डुलेष्वोदनत्ववद् गौणमेव, न मुख्यभेदार्थत्वं श्रुतेर्युज्यते, भेदस्यापूर्वत्वपुरुषार्थत्वयोरभावादित्यर्थः।

श्लोकव्यावर्त्यामाशङ्कामाह –

नन्विति ।

न केवलमस्माभिरुत्प्रेक्षितमिदं, किं तु श्रुत्याऽपि दर्शितमित्यपेरर्थः।

भेदं वदन्त्याः श्रुतेस्तात्पर्यलिङ्गमभ्यासं सूचयति –

अनेकश इति ।

कर्मकाण्डे तत्तत्कामनाभेदेन नियोज्यभेदसिद्धावपि कथं जीवपरयोर्भेदः सिध्यति, परस्य तत्रानुक्तत्वादित्याशङ्क्याऽऽह –

परश्चेति ।

‘हिरण्यगर्भः समवर्तताग्र’(ऋ. सं. १० । १२१ । १) इति मन्त्रे प्रकृतो हिरण्यगर्भः सर्वनाम्ना परामृश्यते। स इमां पृथिवीं द्यामपि धृतवान्। अन्यथा गुरुत्वात्तयोरवस्थानायोगात्। न च हिरण्यगर्भातिरिक्तमीश्वरं परे बुध्यन्ते मन्त्रवर्णैः। परश्च प्रकीर्तित इति सम्बन्धः।

कर्मकाण्डार्थं ज्ञानकाण्डेनापबाध्य ज्ञानकाण्डार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यतामित्याशङ्क्य बाध्यबाधकभावनिर्धारणे कारणानवधारणान्मैवमित्याह –

तत्रेति ।

श्लोकाक्षरैरुत्तरमाह –

अत्रेत्यादिना ।

पृथक्त्वस्य गौणत्वे प्रागुक्तमेव दृष्टन्तमाह –

महाकाशेति ।

तत्रैव श्लोकसूचितमुदाहरणमाह –

यथेति ।

मुख्यत्वं हीत्यादि व्याचष्टे –

न हीति ।

भेदस्यापूर्वत्वाद्यभावान्न वाक्यानां तत्परत्वम्; तत्परातत्परयोश्च तत्परं वाक्यं बलवदिति न्यायादखण्डवाक्यार्थस्यैव सामञ्जस्यमित्यर्थः।

अद्वैतवाक्यानामपि कथमद्वैते तात्पर्यमित्याशङ्क्यापूर्वार्थत्वादुपपत्तिमत्त्वाच्चेत्याह –

इह चेति ।

अद्वैतं तावन्मानान्तरागोचरत्वादपूर्वमेकमेवाद्वितीयमिति प्रागवस्थायां ब्रह्माद्वितीयं श्रुतम्। तदेवेदं सृष्ट्वा ‘तत्सृट्वा तदेवानुप्राविशत्’(तै. उ. २ । ६ । १) इति श्रुतेरनुप्रविष्टं जीवोऽभिलप्यते। तेन जीवस्य ब्रह्मता सम्भवतीत्युपपत्त्याऽपि श्रुतेरद्वैतार्थत्वं गम्यते। सृष्ट्यादिश्रुतीनामद्वैते तात्पर्यं न सृष्ट्यादावित्यनन्तरमेव वक्ष्यते। तस्मादद्वैते श्रुतेस्तात्पर्यात्तदर्थस्यैव तात्त्विकतेत्यर्थः।

न केललमुपपत्तेरेवाद्वैते श्रुतेस्तात्पर्यं किं तु नवकृत्वोऽभ्यासादपीत्याह –

तत्त्वमिति ।

भेददृष्टेरपवादाच्च श्रुतेरद्वैते तात्पर्यं प्रतिभातीत्याह –

अन्योऽसाविति ।

आदिशब्देनाद्वैतवादीनि द्वैतनिषेधीनि च वचनान्तराणि गृह्यन्ते। एकत्वमेव प्रतिपिपादिषितमिति पूर्वेण सम्बन्धः ।

एकत्वे श्रुतेस्तात्पर्ये सिद्धे तृतीयपादावष्टम्भेन फलितमाह –

अत इति ।

श्लोकस्य साध्याहारं व्याख्यानान्तरमाह –

अथवेत्यादिना ॥१४॥