माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
स एष नेति नेतीति व्याख्यातं निह्नुते यतः ।
सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ २६ ॥
सर्वविशेषप्रतिषेधेन ‘अथात आदेशो नेति नेति’ (बृ. उ. २ । ३ । ६) इति प्रतिपादितस्यात्मनो दुर्बोधत्वं मन्यमाना श्रुतिः पुनः पुनरुपायान्तरत्वेन तस्यैव प्रतिपिपादयिषया यद्यद्व्याख्यातं तत्सर्वं निह्नुते । ग्राह्यं जनिमद्बुद्धिविषयमपलपत्यर्थात् ‘स एष नेति नेति’ (बृ. उ. ३ । ९ । २६), (बृ. उ. ४ । २ । ४), (बृ. उ. ४ । ४ । २२), (बृ. उ. ४ । ५ । १५) इत्यात्मनोऽदृश्यतां दर्शयन्ती श्रुतिः । उपायस्योपेयनिष्ठतामजानत उपायत्वेन व्याख्यातस्य उपेयवद्ग्राह्यता मा भूदिति अग्राह्यभावेन हेतुना कारणेन निह्नुत इत्यर्थः । ततश्चैवमुपायस्योपेयनिष्ठतामेव जानत उपेयस्य च नित्यैकरूपत्वमिति तस्य सबाह्याभ्यन्तरमजमात्मतत्त्वं प्रकाशते स्वयमेव ॥

इतोऽपि द्वैतं वस्तु न भवतीत्याह –

स एष इति ।

‘द्वे वाव’(बृ. उ. २ । ३ । १) इत्यादिना व्याख्यातं मूर्तामूर्तादि सर्वमेव त्याज्यमग्राह्यं नेति नेतीति वीप्सया यतो निषेधति श्रुतिरतः ‘स एष’(बृ. उ. ३ । ९ । २६) इत्युपक्रम्य प्रतिपादितस्याऽऽत्मतत्त्वस्य कूटस्थस्याविषयत्वेन प्रथोपपत्तिरित्यर्थः।

नेति नेतीति वीप्सातात्पर्यमाह –

सर्वेति ।

रूपद्वयोपन्यासानन्तरं तन्निषेधमन्तरेण निर्विशेषस्तुप्रतिपत्तेरयोगात्तत्प्रतिपत्त्या च पुरुषार्थपरिसमाप्तिसम्भवादादेशो निर्विशेषस्याऽत्मतत्त्वस्योपदेशस्तावत् प्रस्तूयते। एवं प्रस्तुत्य नेति नेतीति वीप्सया सर्वस्य मूर्तामूर्तादिविशेषस्याऽऽरोपितस्य निषेधो दर्शितस्तेन चाऽऽत्मा जिज्ञासितो विशिष्टो निर्दिष्ट इत्यर्थः।

स चेदेवं मूर्तामूर्ताधिकारे प्रतिपादितस्तर्हि किमिति प्रदेशान्तरे पुनः पुनरेवं प्रतिपाद्यते, पुनरुक्तेरित्याशङ्क्य व्याख्यातमित्यादि व्याचष्टे –

प्रतिपादितस्येति ।

यद्यपि मूर्तामूर्तप्रकरणे प्रतिपादितमात्मतत्त्वं तथाऽपि तस्य परमसूक्ष्मत्वाद् दुर्ज्ञानत्वं मन्यते श्रुतिः। सा पुनरुपायविशेषसद्भावाभिप्रायेण तस्यैव पुनः पुनः प्रतिपादनेच्छया यद्यदारोपितं तत्तदशेषमपह्नुत्यावशिष्टमात्मस्वरूपं निवेदयतीत्यर्थः।

सर्वमित्यादि स्पष्टीकुर्वाणः स एष इति व्याचष्टे –

ग्राह्यमिति ।

स एष इत्याद्या श्रुतिरदृश्यतामात्मनो विशेषं निषेधमुखेन दर्शयन्ती यद् दृश्यं कार्यं मनसां वाचं च गोचरीभूतं तदशेषमर्थादपलपति। सा हि परमार्थवस्त्वदृश्यमिति ब्रुवाणा दृश्यस्य वस्तुत्वे नोपपद्यते। तथा चानुपपत्तेर्दृश्यवर्गस्यावस्तुत्वं सिद्धमित्यर्थः।

ननु किमिति श्रुतिर्व्याख्यातं विशेषजातं निन्हुते पङ्कप्रक्षालनन्यायापातादित्याशङ्क्याग्राह्यभावेनेत्यादि व्याकरोति –

उपायस्येति ।

‘द्वे वाव’(बृ. उ. २ । ३ । १) इत्यादिना व्याख्यातस्य रूपप्रपञ्चस्याद्वितीयब्रह्मात्ममात्रपर्यवसायितामप्रतिपद्यमानस्य ब्रह्मवदेवोपायत्वेनाभिमतस्यापि प्रपञ्चस्य वस्तुत्वेन ग्राह्यत्वाशङ्का या सा मा भूदित्यशेषविशेषराहित्येनाद्वितीयब्रह्मस्वरूपनिर्धारणार्थमारोपितं प्रपञ्चं प्रतिषेधति श्रुतिरित्यर्थः।

उपायस्य कल्पितत्वेन वस्तुत्वाभावादुपेयस्य च सदैकरूपत्वात् कथं तथाविधवस्तुप्रतिपत्तिरित्याशङ्क्याजमित्यादि व्याचष्टे –

ततश्चेति ।

समारोपितस्य सर्वस्य निषेधादेव स्वातन्त्र्येण वस्तुत्वाभावनिश्चयादारोपितसर्पादेरधिष्ठानातिरेकेणासत्त्ववदुपायस्य मूर्तादेरुपेयाद्वितीयब्रह्ममात्रतामेव प्रतिपद्यमानस्य ब्रह्मणश्च सदैकरूपत्वकूटस्थनित्यदृष्टिस्वभावत्वादि जानतस्तस्योत्तमस्याधिकारिणः स्वयमेवान्यापेक्षामन्तरेणाऽऽत्मतत्त्वमुक्तविशेषणं प्रकाशीभवति। कल्पितस्य चोपायत्वं प्रतिबिम्बादिवदविरुद्धमित्यर्थः॥२६॥