आत्मतत्त्वमजमद्वितीयं परमार्थभूतम्; द्वैतं तु मायाकल्पितमसदिति प्रतिपादितम्। तत्रैव हेत्वन्तरमाह –
सतो हीति ।
यदात्मतत्त्वं सदा सदेकरूपं तस्य मायया जगदाकारेण जन्म युक्तम्, मायाया दुर्निरूपार्थसमर्थनपटीयस्त्वात्। परमार्थतस्त्वेकरूपमनेकरूपतया नोत्पत्तुं पारयति, विरोधादित्यर्थः।
विपक्षे दोषमाह –
तत्त्वत इति ।
यस्य वादिनो मते ब्रह्मैव परमार्थतो जगदात्मना जायते तस्याजस्य जायमानत्वप्रतिज्ञाया व्याहतत्वाज्जातस्यैव जायमानत्वे स्यादनवस्थेत्यर्थः।
अद्वैतमावेदयन्त्या द्वैतनिषेधकश्रुत्या दृश्यत्वजडत्वादियुक्त्या च तथाविधया निर्धारितमर्थं श्लोकाक्षरार्थकथनार्थमनुवदति –
एवमिति ।
उक्तमेव वस्तु युक्त्यन्तरेण पुनर्निर्धारयितुमुत्तरग्रन्थप्रवृत्तिरित्याह –
अधुनेति ।
पूर्वार्धं शङ्कोत्तरत्वेन व्याख्यातुं शङ्कयति –
तत्रेति ।
श्लोकः सप्तम्या परामृश्यते। यन्न कदाचिदपि गृह्यते तदत्यन्तासदेव शशविषाणादिवदेष्टव्यं, प्रमाणाभावे प्रमेयासिद्धेरित्यर्थः।
कार्यलिङ्गकानुमानवशादात्मतत्त्वस्य कारणत्वेन सत्त्वनिर्णयान्नासत्त्वं चोद्यमिति दूषयति –
तन्नेति ।
संगृहीतमर्थं दृष्टान्तेन विवृणोति –
यथेति ।
विमतं सदधिष्ठानं कार्यत्वात् सम्प्रतिपन्नवदित्यर्थः।
उक्तेऽर्थे पूर्वार्धाक्षराणि योजयति –
यस्मादिति ।
तस्मात् कारणस्य सत्त्वमविवादमिति शेषः ।
नासत इति ।
तस्य निःस्वभावत्वात् कारणत्वायोगादित्यर्थः ।
न त्विति ।
तथाभूतस्यान्यथाभूतस्य च जन्मायोगादित्यर्थः। सत इति पञ्चम्यन्तं पदं गृहीत्वा निमित्तकारणपरतया व्याख्यातम्। सम्प्रति सत इति षष्ठ्यन्तं पदमादायोपादानपरतया जगदात्मना जन्म मायाप्रयुक्तं प्रतिपत्तव्यम्। जन्मरहितस्य वस्तुतो जन्मव्याघातादित्यर्थः।
उत्तरार्धं विभजते –
यस्येत्यादिना ।
मायिकं जन्म न तात्त्विकमिति स्थिते फलितमाह –
तस्मादिति ॥२७॥