माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ।
ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३३ ॥
यद्यसदिदं द्वैतम् , केन समञ्जसमात्मतत्त्वं विबुध्यत इति, उच्यते — अकल्पकं सर्वकल्पनावर्जितम् , अत एव अजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमार्थसता ब्रह्मणा अभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः । ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०) अग्न्युष्णवत् , ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यादिश्रुतिभ्यः । तस्यैव विशेषणम् — ब्रह्म ज्ञेयं यस्य, स्वस्थं तदिदं ब्रह्म ज्ञेयम् औष्ण्यस्येवाग्निवदभिन्नम् , तेन आत्मस्वरूपेण अजेन ज्ञानेन अजं ज्ञेयमात्मतत्त्वं स्वयमेव विबुध्यते अवगच्छति । नित्यप्रकाशस्वरूप इव सविता नित्यविज्ञानैकरसघनत्वान्न ज्ञानान्तरमपेक्षत इत्यर्थः ॥

मनसश्चेन्मसस्त्वं व्यावर्तते, तर्हि कथमात्मनोऽवबोधो व्यञ्जकाभावादित्याशङ्क्याऽऽह –

अकल्पकमिति ।

श्लोकव्यावर्त्यां शङ्कामाह –

यदीति ।

मनोमुख्यस्य द्वैतस्यासत्त्वे व्यञ्जकाभावान्नाऽऽत्मबोधः सम्भवति “मनसैवानुद्रष्टव्यम्”(बृ. उ. ४ । ४ । १९) इति श्रुतेः; मनसश्चासत्त्वाङ्गीकारादित्यर्थः।

स्वरूपभूतेन ज्ञानेनैवाऽऽत्मनोऽवबोधसम्भवान्नातिरिक्ते मनस्यपेक्षेत्युत्तरमाह –

उच्यत इति ।

ज्ञेयाभिन्नं ज्ञानमित्यत्र श्रुतीरुदाहरति –

न हीति ।

सत्यग्नौ तदात्मकमौष्ण्यं न परिलुप्यते तथेत्युत्तरमाह –

अग्न्युष्णवदिति ।

“प्रज्ञानं ब्रह्म”(ऐ. उ. ३ । १ । ३) इत्यादिश्रुतिसंग्रहार्थमादिपदम्।

ज्ञेयाभिन्नमित्युक्तं स्फुटयति –

तस्यैवेति ।

आत्मनः स्वयमेवावगतिरूपत्वान्नार्थान्तरापेक्षेत्येतमर्थं दृष्टान्तेन स्फुटयति –

नित्येति ॥३३॥