मनसश्चेन्मसस्त्वं व्यावर्तते, तर्हि कथमात्मनोऽवबोधो व्यञ्जकाभावादित्याशङ्क्याऽऽह –
अकल्पकमिति ।
श्लोकव्यावर्त्यां शङ्कामाह –
यदीति ।
मनोमुख्यस्य द्वैतस्यासत्त्वे व्यञ्जकाभावान्नाऽऽत्मबोधः सम्भवति “मनसैवानुद्रष्टव्यम्”(बृ. उ. ४ । ४ । १९) इति श्रुतेः; मनसश्चासत्त्वाङ्गीकारादित्यर्थः।
स्वरूपभूतेन ज्ञानेनैवाऽऽत्मनोऽवबोधसम्भवान्नातिरिक्ते मनस्यपेक्षेत्युत्तरमाह –
उच्यत इति ।
ज्ञेयाभिन्नं ज्ञानमित्यत्र श्रुतीरुदाहरति –
न हीति ।
सत्यग्नौ तदात्मकमौष्ण्यं न परिलुप्यते तथेत्युत्तरमाह –
अग्न्युष्णवदिति ।
“प्रज्ञानं ब्रह्म”(ऐ. उ. ३ । १ । ३) इत्यादिश्रुतिसंग्रहार्थमादिपदम्।
ज्ञेयाभिन्नमित्युक्तं स्फुटयति –
तस्यैवेति ।
आत्मनः स्वयमेवावगतिरूपत्वान्नार्थान्तरापेक्षेत्येतमर्थं दृष्टान्तेन स्फुटयति –
नित्येति ॥३३॥