मनसः सुषुप्तस्य समाहितस्य च प्रचारभेदोऽस्तीत्युक्तं, तत्र हेतुमाह –
लीयते हीति ।
समाहितस्य मनसो द्वैतवर्जितस्य स्वरूपं कथयति –
तदेवेति ।
पूर्वार्धस्य तात्पर्यमाह –
प्रचारेति ।
मनसः सुषुप्तस्य समाहितस्य चेति वक्तव्यम्। यस्मादित्यस्य तस्मादित्युत्तरेण सम्बन्धः। अविद्यादीत्यादिशब्देनास्मितारागादयो गृह्यन्ते।
सुषुप्ते मनसो वासनाभिः सह लयप्रकारं कथयति –
तमोरूपमिति ।
आपद्यत इति सम्बन्धः।
जाड्यं रूपमवस्थान्तरेऽपि तुल्यमित्यतो विशोनष्टि –
अविशेषेत्यादिना ।
एवमाद्यं पादं व्याख्यायाद्वितीयं पादं व्याचष्टे –
तदिति ।
पूर्वविभागविभजनेन फलितमाह –
तस्मादिति ।
तदेव निर्भयं ब्रह्मेत्यस्यार्थमाह –
यदेति ।
समाहितं मनो ग्राह्यं ग्राहकमित्यविद्याकृतं यन्मूलद्वयं तेन वर्जितं यदा तदेति सम्बन्धः।
मनसो ब्रह्मत्वे निर्भयत्वं तस्य फलितमित्याह –
इत्यत इति ।
तत्र हेतुमतःशब्देन सूचितमाह –
द्वैतेति ।
यदुपशान्तं ब्रह्माभयमित्युक्तं तस्याभयत्वे प्रमाणं सूचयति –
यद्विद्वानिति ।
ननु यथोक्तं ब्रह्म प्रकाशते न वा प्रकाशते? प्रकाशते चेदुपायापेक्षायामद्वैतव्याघातः; न चेत्प्रकाशते पुरुषार्थत्वासिद्धिरिति, तत्राऽऽह –
तदेवेति ।
तस्य ब्रह्मत्वसिद्धये परिच्छिन्नत्वं व्यवच्छिनत्ति –
समन्तत इति ॥३५॥