प्रासङ्गिकं परित्यज्य साङ्ख्यपक्षे वैशेषिकादिभिरुच्यमानं दूषणमभ्यनुज्ञातमनुभाषते –
कारणमिति ।
कारणस्य जायमानत्वे का हानिरित्याशङ्क्याऽऽह –
जायमानमिति ।
सावयवत्वाच्च प्रधानस्य नित्यत्वानुपपत्तिरित्याह –
भिन्नमिति ।
श्लोकस्य तात्पर्यमाह –
कथमिति ।
यत्र प्रथमपादाक्षराणि योजयति –
कारणमित्यादिना ।
तदेव स्पष्टयति –
कारणमेवेति ।
द्वितीयपादं विभजते –
तस्येति ।
प्रधानादीत्यादिशब्देन तदवयवाः सत्त्वादयो गृह्यन्ते । महदादीत्यादिशब्देनाहङ्कारादिग्रहणम्।
तृतीयपादं व्याकरोति –
महदादीति ।
विप्रतिषेधं विशदयति –
जायत इति ।
चतुर्थपादार्थमाह –
नित्यं चेति ।
विमतमनित्यं सावयवत्वाद् घटादिवदित्यभिप्रेत्य दृष्टान्तं साधयति –
न हीति ।
सङ्ख्यस्मृतिविरुद्धमनुमानमित्याशङ्क्याऽऽह –
विदीर्णं चेति ॥११॥