माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
कारणं यस्य वै कार्यं कारणं तस्य जायते ।
जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११ ॥
कथं सज्जातिवादिभिः साङ्ख्यैरनुपपन्नमुच्यते इति, आह वैशेषिकः — कारणं मृद्वदुपादानलक्षणं यस्य वादिनः वै कार्यम् , कारणमेव कार्याकारेण परिणमते यस्य वादिन इत्यर्थः । तस्य अजमेव सत् प्रधानादि कारणं महदादिकार्यरूपेण जायत इत्यर्थः । महदाद्याकारेण चेज्जायमानं प्रधानम् , कथमजमुच्यते तैः ? विप्रतिषिद्धं चेदम् — जायते अजं चेति । नित्यं च तैरुच्यते । प्रधानं भिन्नं विदीर्णम् ; स्फुटितमेकदेशेन सत् कथं नित्यं भवेदित्यर्थः । न हि सावयवं घटादि एकदेशेन स्फुटनधर्मि नित्यं दृष्टं लोके इत्यर्थः । विदीर्णं च स्यादेकदेशेनाजं नित्यं चेत्येतत् विप्रतिषिद्धं तैरभिधीयत इत्यभिप्रायः ॥

प्रासङ्गिकं परित्यज्य साङ्ख्यपक्षे वैशेषिकादिभिरुच्यमानं दूषणमभ्यनुज्ञातमनुभाषते –

कारणमिति ।

कारणस्य जायमानत्वे का हानिरित्याशङ्क्याऽऽह –

जायमानमिति ।

सावयवत्वाच्च प्रधानस्य नित्यत्वानुपपत्तिरित्याह –

भिन्नमिति ।

श्लोकस्य तात्पर्यमाह –

कथमिति ।

यत्र प्रथमपादाक्षराणि योजयति –

कारणमित्यादिना ।

तदेव स्पष्टयति –

कारणमेवेति ।

द्वितीयपादं विभजते –

तस्येति ।

प्रधानादीत्यादिशब्देन तदवयवाः सत्त्वादयो गृह्यन्ते । महदादीत्यादिशब्देनाहङ्कारादिग्रहणम्।

तृतीयपादं व्याकरोति –

महदादीति ।

विप्रतिषेधं विशदयति –

जायत इति ।

चतुर्थपादार्थमाह –

नित्यं चेति ।

विमतमनित्यं सावयवत्वाद् घटादिवदित्यभिप्रेत्य दृष्टान्तं साधयति –

न हीति ।

सङ्ख्यस्मृतिविरुद्धमनुमानमित्याशङ्क्याऽऽह –

विदीर्णं चेति ॥११॥