यत्पुनरन्योन्यपक्षं प्रतिक्षिपद्भिरजातिर्वस्तुतो ज्ञापिता परीक्षकैरित्युपक्षिप्तं तत्र कथमजातिर्वस्तुतो ज्ञापितेत्याशङ्क्याऽऽह –
पूर्वापरेति ।
कार्यस्य गृह्यमाणत्वादजातिरसिद्धेत्याशङ्क्य कारणस्यापि तर्हि ग्राह्यत्वादितरेतराश्रयादजातिरभिव्यक्ता सिध्यतीत्याह –
जायमानादिति ।
तत्र पूर्वार्धं प्रश्नद्वारा विवृणोति –
कथमित्यादिना ।
नियते पौर्वापर्ये निर्धारिते जातिः सिध्यति, तदभावे तदसिद्धिरित्यर्थः।
द्वितीयार्धं विभजते –
जायमानो हीति ।
कार्यग्रहणे कारणं ग्रहीतव्यमिति कुतो नियम्यते, तत्राऽऽह –
अवश्यं हीति ।
कार्यकारणयोर्नियतसम्बन्धवतोरितरेतराश्रयाद् दुर्ग्रहत्वादजातिरेव वस्तुतो ज्ञापितेत्युपसंहरति –
तस्मादिति ।
कार्यकारणयोर्दुर्ज्ञानत्वं तच्छब्देन परामृश्यते॥२१॥