वस्तुनो वस्तुतो जन्म नास्तीति विकल्पपूर्वकं साधयति –
स्वतो वेत्यादिना ।
कस्यचिदपि वस्तुनो जन्म नास्तीत्यस्मिन्नर्थे हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –
इतश्चेति ।
इतःशब्दार्थमेव स्फोरयितुं जायमानमनूद्य षोढा विकल्पयति –
यज्जायमानमिति ।
सर्वेष्वपि पक्षेषु दोषसम्भावनां सूचयति –
न तस्येति ।
तत्राऽऽद्यं दूषयति –
न तावदिति ।
स्वयमेव जायमानं कार्यं स्वस्मादेव स्वरूपान्न तावज्जायते, स्वयमेव स्वापेक्षामन्तरेण स्वकारणाधीनतया परिनिषन्नत्वात्। अन्यथा स्वसिद्धेः स्वसिद्धिरित्यात्माश्रयात्। न हि घटादेव घटो जायमानो दृष्टोऽस्तीत्यर्थः।
द्वितीयं प्रत्याह –
नापीति ।
न खल्वन्यत्वं जनकत्वे प्रयोजकम्। घटादपि पटोत्पत्तिप्रसङ्गात्। न चोत्पादकत्वयोग्यत्वविशेषितमन्यत्वं तथेति वाच्यम्। उत्पत्तिमन्तरेण तद्योग्यत्वस्य दुरवगमत्वादित्यर्थः।
तृतीयं निरस्यति –
तथेति ।
विरोधमेव दृष्टान्तद्वारा स्पष्टयति –
यथेति ।
न हि घटपटाभ्यां घटः पटो वा जायमानो दृश्यते। तथा जायमानं स्वस्मादन्यस्माच्च भवतीत्यनुपपन्नमित्यर्थः।
अन्यत्वे सत्यपि जन्यजनकभावस्य प्रत्यक्षत्वान्नासौ शक्यते प्रतिक्षेप्तुमिति शङ्कते –
नन्विति ।
किं प्रत्यक्षानुसारिणौ शब्दप्रत्ययावविवेकिनामिष्येते किं वा विवेकिनामिति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
द्वितीयं प्रत्याह –
तावेवेति ।
मृषैवेति परीक्ष्यमाणे सतीति सम्बन्धः। तच्च जन्मशब्दधीविषयं वस्तु शब्दमात्रमेव वाचारम्भणश्रवणान्न परमार्थतो यावता विद्यते, तस्मादसत्यालम्बनत्वमेव शब्दप्रत्यययोरेष्टव्यमिति योजना।
चतुर्थं शिथिलयति –
सच्चेदिति ।
पञ्चमं निराकरोति –
यदीति ।
षष्ठं प्रत्यादिशति –
अथेत्यादिना ।
षण्णां विकल्पानां निरासे फलितं निगमयति –
अतो नेति ।
क्रियाकारकफलनानात्वपक्षे जन्मानुपपत्तिदोषमुक्त्वा पक्षान्तरमनूद्य दूषयति –
येषां पुनरिति ।
बौद्धानां न्यायावष्टम्भेन वस्तु व्यवस्थापयतां कुतो न्यायबाह्यत्वमित्याशङ्क्याऽऽह –
इदमिति ।
इदमा वस्तु परामृष्टम्। इत्थमिति क्षणिकत्वं विवक्षितम्। एवमवधारणावच्छिन्ने क्षणे वस्त्ववच्छेदकक्षणातिरिक्ते वस्तुनोऽवस्थानाभावान्न तस्मिन्ननुभवः सिध्यतीत्यर्थः। न च तस्मिन्नननुभूतेऽर्थे स्मृतिरुत्पद्यते।
तथा च वस्तुनि प्रत्ययद्वयासिद्धौ व्यवहारासिद्धिरित्याह –
अननुभूतस्येति ॥२२॥