माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति ।
अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ ३० ॥
अयं चापर आत्मनः संसारमोक्षयोः परमार्थसद्भाववादिनां दोष उच्यते — अनादेः अतीतकोटिरहितस्य संसारस्य अन्तवत्त्वं समाप्तिः न सेत्स्यति युक्तितः सिद्धिं नोपयास्यति । न ह्यनादिः सन् अन्तवान्कश्चित्पदार्थो दृष्टो लोके । बीजाङ्कुरसम्बन्धनैरन्तर्यविच्छेदो दृष्ट इति चेत् ; न, एकवस्त्वभावेनापोदितत्वात् । तथा अनन्ततापि विज्ञानप्राप्तिकालप्रभवस्य मोक्षस्य आदिमतो न भविष्यति, घटादिष्वदर्शनात् । घटादिविनाशवदवस्तुत्वाददोष इति चेत् , तथा च मोक्षस्य परमार्थसद्भावप्रतिज्ञाहानिः ; असत्त्वादेव शशविषाणस्येव आदिमत्त्वाभावश्च ॥

कूटस्थं तत्त्वं तात्त्विकमित्यत्र हेत्वन्तरमाह –

अनादेरिति ।

विमतः संसारो नान्तवाननादिभावत्वादात्मवदित्यर्थः।

किं च मोक्षोऽनन्तो न भावत्वे सत्यादिमत्त्वाद् घटवदित्याह –

अनन्तेति ।

श्लोकस्य तात्पर्यमाह –

अयं चेति ।

तत्र पूर्वार्धं व्याकरोति –

अनादेरिति ।

अतीतकोटिरहितस्य पूर्वं नाऽऽसीदित्यवच्छेदवर्जितस्येत्यर्थः।

योऽनादिभावः सोऽन्तवान्नेति व्याप्तिरात्मनि व्यक्तेत्याह –

न हीति ।

बीजाङ्कुरयोर्हेतुफलभावेन सम्बन्धस्तस्य नैरन्तर्यं सन्तानस्तस्यानादिभावत्वेऽपि विच्छेदस्यान्तस्य दृष्टत्वादनैकान्तिकतेति शङ्कते –

बीजेति ।

भावत्वविशेष्यांशस्य तत्रावर्तनान्न व्यभिचारशङ्केति दूषयति –

नैकेति ।

द्वितीयार्धं व्याचष्टे –

तथेति ।

यत्राऽऽदिमत्त्वं तत्र नानन्तत्वमिति व्याप्तिभूमिमाह –

घटादिष्विति ।

यथा कृतकोऽपि घटादिध्वंसो नित्यस्तथा बन्धध्वंसोऽपि भवष्यतीत्यनैकान्तिकत्वमाशङ्कते –

घटादीति ।

मोक्षस्याभावत्वे सति परमार्थसत्त्वप्रतिज्ञा भज्येतेति दूषयति –

तथा चेति ।

किं च प्रागसतः सत्तासमवायरूपं कार्यत्वं तदपि मोक्षस्यासत्त्वे न सिद्ध्यतीत्याह –

असत्त्वादेवेति ॥३०॥