माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् ।
न च भूतादभूतस्य सम्भवोऽस्ति कथञ्चन ॥ ३८ ॥
ननु स्वप्नकारणत्वेऽपि जागरितवस्तुनो न स्वप्नवदवस्तुत्वम् । अत्यन्तचलो हि स्वप्नः जागरितं तु स्थिरं लक्ष्यते । सत्यमेवमविवेकिनां स्यात् । विवेकिनां तु न कस्यचिद्वस्तुन उत्पादः प्रसिद्धः । अतः अप्रसिद्धत्वात् उत्पादस्य आत्मैव सर्वमिति अजं सर्वम् उदाहृतं वेदान्तेषु ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इति । यदपि मन्यसे जागरितात्सतः असन्स्वप्नो जायत इति, तदसत् । न भूतात् विद्यमानात् अभूतस्य असतः सम्भवोऽस्ति लोके । न ह्यसतः शशविषाणादेः सम्भवो दृष्टः कथञ्चिदपि ॥

कार्यकारणभावेऽपि स्वप्नजागरितयोर्न मिथ्यात्वमविशिष्टमत्यन्तवैषम्यादित्याशङ्क्याऽऽह –

उत्पादस्येति ।

यत्तु कार्यकारणत्वं सत्यासत्ययोरिव स्वप्नजागरितयोरित्युक्तं तद् दुरुक्तमित्याह –

न चेति ।

श्लोकव्यावर्त्यामाशङ्कामाह –

नन्विति ।

किमिदं वैलक्षण्यमविवेकिनां प्रतिभाति, किं वा विवेकिनामिति विकल्प्याऽऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं प्रत्याह –

विवेकिनां त्विति ।

द्वितीयभागमाकाङ्क्षाद्वारा विभजते –

यदपीत्यादिना ।

सम्भवो नासतोऽस्तीत्येतद् दृष्टान्तेन साधयति –

न हीति ।

कथञ्चिदपि सतोऽसतो वेत्यर्थः॥३८॥