कूटस्थमद्वितीयमात्मतत्त्वमिच्छता कुतो जन्मनाशौ व्यवह्रियेते, तत्राऽऽह –
संवृत्येति ।
अविद्यया सर्वस्य जायमानत्वे सत्यविद्याविषये नित्यं नाम नास्त्येवेत्याह –
शाश्वतमिति ।
परमार्थतस्तु सर्वमजं कूटस्थमास्थीयते, तेन कल्पनां विना विनाशो नास्त्येव हेतुफलादेरित्याह –
सद्भावेनेति ।
पूर्वापरविरोधमाशङ्कते –
नन्विति ।
न तावदात्मनो जन्मविनाशौ तस्य कूटस्थत्वान्नपि ततोऽन्यस्य तौ युक्तौ तस्याद्वितीयत्वात्। तथा च हेत्वादेर्बन्धस्य जन्मनाशौ न त्वया वक्तव्यावित्यर्थः।
उच्यमाने समाधाने मनःसमाधानमर्थयते –
शृण्विति ।
तत्र पूर्वभागाक्षरार्थं कथयति –
संवृतेत्यादिना ।
अविद्याविषये नित्यस्य वस्तुनोऽभावे फलितमाह –
अत इति ।
द्वितीयार्धाक्षरार्थमाह –
परमार्थेति ।
जात्यभावो जन्मादिविक्रियाऽभावस्तमेवोच्छेदाभावे हेतुं कथयति –
तेनेति ।
यथा पुरेवर्तिनि भुजगाभावमनुभवन्विवेकी ‘नास्ति भुजङ्गो रज्जुरेषा कथं वृथैव बिभेषी’ ति भ्रान्तमभिदधाति। भ्रान्तस्तु स्वकीयादपराधादेव भुजङ्गं परिकल्प्य भीतः सन् पलायते न च तत्र विवेकिनो वचनं मूढदृष्ट्या विरुध्यते। तथा परमार्थकूटस्थात्मदर्शनं व्यावहारिकजन्मादिवचनेनाविरुद्धमिति भावः॥५७॥