माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्द्वयम् ।
चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ७२ ॥
सर्वं ग्राह्यग्राहकवच्चित्तस्पन्दितमेव द्वयम् । चित्तं परमार्थत आत्मैवेति निर्विषयम् । तेन निर्विषयत्वेन नित्यम् असङ्गं कीर्तितम् । ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति श्रुतेः । सविषयस्य हि विषये सङ्गः । निर्विषयत्वाच्चित्तमसङ्गमित्यर्थः ॥

संवेदनस्य कल्पितदृश्योपहितरूपेण दृश्यत्वान्न द्रष्टुर्व्यतिरेकेण सत्त्वमिति स्वप्नदृष्टान्तेनोक्तमिदानीं तत्त्वतः संवेदनस्य विषयसम्बन्धाभावादात्मैव संवेदनमित्याह –

चित्तेति ।

अक्षरार्थं कथयति –

सर्वमित्यादिना ।

निर्विषयत्वेनासङ्गत्वे सिद्धे श्रुतिमपि संवादयति –

असङ्गो हीति ।

श्रुतियुक्तिसिद्धमसङ्गत्वं साधयति –

सविषयस्येति ॥७२॥