माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अजेष्वजमसङ्क्रान्तं धर्मेषु ज्ञानमिष्यते ।
यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ९६ ॥
कथं महाज्ञानत्वमित्याह — अजेषु अनुत्पन्नेषु अचलेषु धर्मेषु आत्मसु अजमचलं च ज्ञानमिष्यते सवितरीव औष्ण्यं प्रकाशश्च यतः, तस्मात् असङ्क्रान्तम् अर्थान्तरे ज्ञानमजमिष्यते । यस्मान्न क्रमते अर्थान्तरे ज्ञानम् , तेन कारणेन असङ्गं तत् कीर्तितम् आकाशकल्पमित्युक्तम् ॥

अजं साम्यमित्युक्तं प्रमेयं तद्विषयनिश्चयवान् प्रमाता प्रमाणं तथाविधनिश्चयाज्ञानमिति वस्तुपरिच्छेदे कथं महाज्ञानत्वमित्याशङ्क्याऽऽह –

अजेष्विति ।

अजा धर्माश्चित्प्रतिबिम्बा जीवा विवक्ष्यन्ते। तेष्वजं ज्ञानं कूटस्थदृष्टिरूपं बिम्बकल्पं ब्रह्माचलमात्मभूतमभ्युपगम्यते। तथा च मानमेयादिभावस्य कल्पितत्वेऽपि वस्तुतो वस्तुपरिच्छेदाभावादुपपन्नं तज्ज्ञानवतां महाज्ञानत्वमित्यर्थः। किं चास्मन्मते ज्ञानस्य यदसङ्गत्वमङ्गीकृतं तदपि विषयाभावादेव सिध्यति।

ततश्च “मुक्त्यै निर्विषयं मन”(ब्रह्मबिन्दूपनिषत् २) इति यदुच्यते तदप्यविरुद्धमित्याह –

यतो नेति ।

आकाङ्‌क्षापूर्वकं पूर्वार्धं योजयति –

कथमित्यादिना ।

उत्तरार्धं व्याचष्टे –

यस्मान्नेति ।

नित्यविज्ञप्तिरूपस्याऽऽत्मनोऽसङ्गत्वं प्रागपि सूचितमित्याह –

आकाशेति ॥९६॥