माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः ।
असङ्गता सदा नास्ति किमुतावरणच्युतिः ॥ ९७ ॥
इतोऽन्येषां वादिनाम् अणुमात्रे अल्पेऽपि वैधर्म्ये वस्तुनि बहिरन्तर्वा जायमाने उत्पद्यमाने अविपश्चितः अविवेकिनः असङ्गता असङ्गत्वं सदा नास्ति ; किमुत वक्तव्यम् आवरणच्युतिः बन्धनाशो नास्तीति ॥

कूटस्थं ब्रह्मैव तत्त्वमिति स्वमते ज्ञानमसङ्गं सिध्यतीत्युक्तम्। मतान्तरे पुनः सविषयत्वाज्ज्ञानस्यासङ्गत्वमसङ्गतं प्रसज्येतेत्याह –

अणुमात्रेऽपीति ।

अविद्वद्‌दृष्ट्या कस्यचिदपि पदार्थस्य जन्माङ्गीकारे ज्ञानस्य तदनुषिङ्गित्वेनासङ्गत्वायोगे बन्धध्वंसलक्षणं प्रयोजनं दूरापास्तं भवतीत्याह –

किमुतेति ।

श्लोकाक्षराणि व्याकरोति –

इत इति ।

विद्वानद्वैतवादी पञ्चम्या परामृश्यते॥९७॥