माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः ।
आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ ९८ ॥
तेषामावरणच्युतिर्नास्तीति ब्रुवतां स्वसिद्धान्ते अभ्युपगतं तर्हि धर्माणामावरणम् । नेत्युच्यते — अलब्धावरणाः अलब्धमप्राप्तमावरणम् अविद्यादिबन्धनं येषां ते धर्माः अलब्धावरणाः बन्धनरहिता इत्यर्थः । प्रकृतिनिर्मलाः स्वभावशुद्धाः आदौ बुद्धाः तथा मुक्ताः, यस्मात् नित्यशुद्धबुद्धमुक्तस्वभावाः । यद्येवं कथं तर्हि बुध्यन्त इत्युच्यते — नायकाः स्वामिनः समर्थाः बोद्धुं बोधशक्तिमत्स्वभावा इत्यर्थः । यथा नित्यप्रकाशस्वरूपोऽपि सन् सविता प्रकाशत इत्युच्यते, यथा वा नित्यनिवृत्तगतयोऽपि नित्यमेव शैलास्तिष्ठन्तीत्युच्यते, तद्वत् ॥

न चेदावरणच्युतिरिष्यते तर्हि स्वीकृतमावरणमित्याशङ्क्याऽऽह –

अलब्धेति ।

बोद्‌धृत्वं तर्हि कथमित्याशङ्क्य बोधनशक्तिमत्त्वादित्याह –

बुध्यन्त इति ।

शङ्कोत्तरत्वेन श्लोकमवतारयति –

तेषामित्यादिना ।

अविद्वद्‌दृष्ट्यैवाविद्यावरणं सिध्यति, न तत्त्वदृष्ट्येत्यभिप्रेत्य व्याचष्टे –

अलब्धेति ।

उक्तेऽर्थे हेतुकथनार्थं विशेषणत्रयमित्याह –

यस्मादिति ।

तस्माद् बन्धनरहिता इति पूर्वेण सम्बन्धः।

आत्मनो यथोक्तस्वभावत्वे बोद्धृत्वं न सिध्यतीत्याक्षिपति –

यद्येवमिति ।

पादान्तरेणोत्तरमाह –

उच्यत इति ।

मुख्यावेव क्रियाकर्तारौ प्रकृतिप्रत्ययाभ्यामभिधेयावित्याशङ्क्य नियममुदाहरणाभ्यां निरस्यति –

यथेत्यादिना ॥९८॥