मुण्डकोपनिषद्भाष्यम्
प्रथमं मुण्डकम्प्रथमः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
‘ब्रह्मा देवानाम्’ इत्याद्याथर्वणोपनिषत् । अस्याश्च विद्यासम्प्रदायकर्तृपारम्पर्यलक्षणं सम्बन्धमादावेवाह स्वयमेव स्तुत्यर्थम् — एवं हि महद्भिः परमपुरुषार्थसाधनत्वेन गुरुणायासेन लब्धा विद्येति । श्रोतृबुद्धिप्ररोचनाय विद्यां महीकरोति, स्तुत्या प्ररोचितायां हि विद्यायां सादराः प्रवर्तेरन्निति । प्रयोजनेन तु विद्यायाः साध्यसाधनलक्षणं सम्बन्धमुत्तरत्र वक्ष्यति ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) इत्यादिना । अत्र चापरशब्दवाच्याया ऋग्वेदादिलक्षणाया विधिप्रतिषेधमात्रपराया विद्यायाः संसारकारणाविद्यादिदोषनिवर्तकत्वं नास्तीति स्वयमेवोक्त्वा परापरेति विद्याभेदकरणपूर्वकम् ‘अविद्यायामन्तरे वर्तमानाः’ (मु. उ. १ । २ । ८) इत्यादिना, तथा परप्राप्तिसाधनं सर्वसाधनसाध्यविषयवैराग्यपूर्वकं गुरुप्रसादलभ्यां ब्रह्मविद्यामाह ‘परीक्ष्य लोकान्’ (मु. उ. १ । २ । १२) इत्यादिना । प्रयोजनं चासकृद्ब्रवीति ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति ‘परामृताः परिमुच्यन्ति सर्वे’ (मु. उ. ३ । २ । ६) इति च । ज्ञानमात्रे यद्यपि सर्वाश्रमिणामधिकारः, तथापि संन्यासनिष्ठैव ब्रह्मविद्या मोक्षसाधनं न कर्मसहितेति ‘भैक्षचर्यां चरन्तः’ (मु. उ. १ । २ । ११) ‘संन्यासयोगात्’ (मु. उ. ३ । २ । ६) इति च ब्रुवन्दर्शयति । विद्याकर्मविरोधाच्च । न हि ब्रह्मात्मैकत्वदर्शनेन सह कर्म स्वप्नेऽपि सम्पादयितुं शक्यम् ; विद्यायाः कालविशेषाभावादनियतनिमित्तत्वाच्च कालसङ्कोचानुपपत्तेः । यत्तु गृहस्थेषु ब्रह्मविद्यासम्प्रदायकर्तृत्वादि लिङ्गं न तत्स्थितं न्यायं बाधितुमुत्सहते ; न हि विधिशतेनापि तमःप्रकाशयोरेकत्र सद्भावः शक्यते कर्तुम् , किमुत लिङ्गैः केवलैरिति । एवमुक्तसम्बन्धप्रयोजनाया उपनिषदोऽल्पग्रन्थं विवरणमारभ्यते । य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तः, तेषां गर्भजन्मजरारोगाद्यनर्थपूगं निशातयति परं वा ब्रह्म गमयत्यविद्यादिसंसारकारणं वा अत्यन्तमवसादयति विनाशयतीत्युपनिषत् ; उपनिपूर्वस्य सदेरेवमर्थस्मरणात् ॥

यदक्षरं परं ब्रह्म विद्यागम्यमतीरितम् ।
यस्मिञ्ज्ञाते भवेज्ज्ञातं सर्वं तत्स्यामसंशयम् ॥

ब्रह्मोपनिषद्गर्भोपनिषदाद्या अथर्वणवेदस्य बह्व्य उपनिषदः सन्ति । तासां शारीरकेऽनुपयोगित्वेनाव्याचिख्यासितत्वाददृश्यत्वादिगुणको धर्मोक्ते (ब्र० १।२।२१) रित्याद्यधिकरणोपयोगितया मुण्डकस्य व्याचिख्यासितस्य प्रतीकमादत्ते –

ब्रह्मादेवानामित्याद्याथर्वणोपनिषदिति ।

व्याचिख्यासितेति शेषः । नन्वियमुपनिषन्मन्त्ररूपा मन्त्राणां चेषे त्वेत्यादीनां कर्मसंबन्धेनैव प्रयोजनवत्त्वम् । एतेषां च मन्त्राणां कर्मसु विनियोजकप्रमाणानुपलम्भेन तत्संबन्धासंभवान्निष्प्रयोजनत्वाद्व्याचिख्यासितत्वं न संभवतीति शङ्कमानस्योत्तरम् । सत्यं कर्मसंबन्धाभावेऽपि ब्रह्मविद्याप्रकाशनसामर्थ्याद्विद्यया संबन्धो भविष्यति ।

ननु विद्यायाः पुरुषकर्तृकत्वात्तत्प्रकाशकत्वेऽस्या उपनिषदोऽपि पौरुषेयत्वप्रसङ्गात्पाक्षिकपुरुषदोषजत्वशङ्कयाऽप्रामाण्याद्व्याचिख्यासितत्वं नोपपद्यत इत्याशङ्क्याऽऽह –

अस्याश्चेति ।

विद्यायाः सम्प्रदायप्रवर्तका एव पुरुषा न तूत्प्रेक्षया निर्मातारः। सम्प्रदायकर्तृत्वमपि नाधुनातनं येनानाश्वासः स्यात् किन्त्वनादिपारम्पर्यागतम्। ततोऽनादिप्रसिद्धब्रह्मविद्याप्रकाशनसमर्थोपनिषदः पुरुषसम्बन्धः सम्प्रदायकर्तृत्वपारम्पर्यलक्षण एव तमादावेवाऽऽहेत्यर्थः ।

विद्यासम्प्रदायकर्तृत्वमेव पुरुषाणाम् । यथा विद्यायाः पुरुषसम्बन्धस्तथैवोपनिषदोऽपि यदि पुरुषसम्बन्धो विवक्षितः पौरुषेयत्वपरिहाराय तर्हि तथाभूतसम्बन्धाभिधायकेनान्येन भवितव्यं स्वयमेव स्वसम्बन्धाभिधायकत्वे स्ववृत्तिप्रसङ्गादित्याशङ्क्याऽऽह –

स्वयमेव स्तुत्यर्थमिति ।

विद्यास्तुतौ तात्पर्यान्न स्ववृत्तिर्दोष इत्यर्थः स्तुतिर्वा किमर्थत्यत आह –

श्रोतृबुद्धीति ।

प्रवर्तेरन्निति पाठो युक्तः । वृतुधातोरात्मनेपदित्वात् ।

विद्याया यत्प्रयोजनं तदेवास्या उपनिषदोऽपि प्रयोजनं भविष्यतीत्यभिप्रेत्य विद्यायाः प्रयोजनसंबन्धमाह –

प्रयोजनेन त्विति ।

संसारकारणनिवृत्तिर्ब्रह्मविद्याफलं चेत्तर्ह्यपरविद्ययैव तन्निवृत्तेः संभवान्न तदर्थं ब्रह्मविद्याप्रकाशकोपीनषद्व्याख्यातव्येत्याशङ्क्याऽऽह –

अत्र चेति ।

संसारकारणमविद्यादिदोषस्तन्निवर्तकत्वमपरविद्यायाः कर्मात्मिकायाः न संभवत्यविरोधात् । न हि शतशोऽपि प्राणायामं कुर्वतः शुक्तिदर्शनं विना तदविद्यानिवृत्तिर्दृश्यते । ततोऽपरविद्यायाः संसारकारणाविद्यानिवर्तकत्वं नास्तीति स्वयमेवोक्त्वा ब्रह्मविद्यामाहेति संबन्धः ।

किञ्च परमपुरुषार्थसाधनत्वेन ब्रह्मविद्यायाः परविद्यात्वं निकृष्टसंसारफलत्वेन च कर्मविद्याया अपरविद्यात्वम् । ततः समाख्याबलादपरविद्यायामोक्षसाधनत्वाभावोऽवगम्यत इत्यभिप्रेत्याऽऽह –

परापरेति ।

यच्चाऽऽहुः कर्मजडाः केवलब्रह्मविद्यायाः कर्तृसंस्कारत्वेन कर्माङ्गत्वात्स्वातन्त्रेण पृरुषार्थसाधनत्वं नास्तीति तदनन्तरश्रुत्यैव निराकृतमित्याह –

तथा परप्राप्तिसाधनमिति ।

ब्रह्मविद्यायाः कर्माङ्गत्वे कर्मणो निन्दा न स्यात् । न खल्वङ्गविधानाय प्रधानं विनिन्द्यते । अत्र तु सर्वसाध्यसाधननिन्दया तद्विषयवैराग्याभिधानपूर्वकं परप्राप्तिसाधनं ब्रह्मविद्यामाह – अतो ब्रह्मविद्यायाः स्वप्रधानत्वात्तत्प्रकाशकोपनिषदां न कर्तुः स्त्वावकत्वमित्यर्थः।

यद्युपनिषदां स्वतन्त्रब्रह्मविद्याप्रकाशकात्वं स्यात्तार्हि तदध्येतॄणां सर्वेषामेव किमिति ब्रह्मविद्या न स्यादित्याशङ्क्याऽऽह –

गुरुप्रसादलभ्यामिति ।

गर्वनुग्रहादिसंस्काराभावात्सर्वेषां यद्यपि न भविष्यति तथाऽपि विशिष्टाधिकारिणां भविष्यतीति भावः ।

ननु स्वतन्त्रा चेद्ब्रह्मविद्या तर्हि प्रयोजनसाधनं न स्यात् सुखदुःखप्राप्तिपरिहारयोः प्रवृत्तिनिवृत्तिसाध्यतावगमात्तत्राऽऽह –

प्रयोजनं चेति ।

स्मरणमात्रेण विस्मृतसुवर्णलाभे सुखप्राप्तिप्रसिद्धेः रज्जुतत्त्वज्ञानमात्राच्च सर्पजन्यभयकम्पादिदुःखनिवृत्तिप्रसिद्धेश्च न प्रवृत्तिनिवृत्तिसाध्यत्वं प्रयोजनस्यैकान्तिकम् । अतो विश्रब्धं श्रुतिः प्रयोजनसंबन्धं विद्याया असकृद्ब्रवीति । तस्मात्तत्प्रकाशकोपनिषदो व्याख्येयत्वं संभवतीत्यर्थः ।

यच्चाऽऽहुरेकदेशिनः स्वाध्यायाध्ययनविधेरर्थावबोधफलस्य त्रैवर्णिकाधिकारत्वादधीतोपनिषज्जन्ये ब्रह्मज्ञानेऽस्त्येव सर्वेषामधिकारः । ततः सर्वाश्रमकर्मसमुच्चितैव ब्रह्मविद्या मोक्षसाधनमिति तत्राऽऽह –

ज्ञानमात्र इति।

सर्वस्वत्यागात्मकसंन्यासनिष्ठैव परब्रह्मविद्या मोक्षसाधनमिति वेदो दर्शयति। तादृशसंन्यासिनां च कर्मसाधनस्य स्वस्याभावान्न कर्मसम्भवः। आश्रमधर्मोऽपि शमदमाद्युपबृंहितविद्याभ्यासनिष्ठत्वमेव । तेषां शौचाचमनादिरपि तत्त्वतो नाऽऽश्रमधर्मो लोकसंग्रहार्थत्वात् । ज्ञानाभ्यासेनैवापावनत्वनिवृत्तेः । “न हि ज्ञानेन सदृशं पवित्रमिह विद्यते”(भ. गी. ४। ३८) इति स्मरणात्। त्रिषवणस्नानविध्यादेरज्ञसंन्यासिविषयत्वात्। अतः कर्मनिवृत्त्यैव साहित्यं ज्ञानस्य न कर्मणेत्यर्थः ।

इतश्च न कर्मसमुच्चिता विद्या मोक्षसाधनमित्याह –

विद्याकर्मविरोधाच्चेति ।

अकर्तृं ब्रह्मैवास्मीति करोमि चेति स्फुटो व्याघात इत्यर्थः ।

यदा ब्रह्मात्मैकत्वं विस्मरति तदोत्पन्नविद्योऽपि करिष्यति ततः समुच्चयः संभाव्यत इति न वाच्यमित्याह –

विद्याया इति ।

ननु गृहस्थानामङ्गिरःप्रभृतीनां विद्यासंप्रदायप्रवर्तकत्वदर्शनाद्गृहस्थाश्रमकर्मभिः समुच्चयो लिङ्गादवगम्यत इत्याशङ्क्याऽह –

यत्त्विति ।

लिङ्गस्य न्यायोपबृंहितस्यैव गमकत्वाङ्गीकारात्समुच्चये च न्यायाभावात्प्रत्युत विरोधदर्शनान्न लिङ्गेन समुच्चयसिद्धिः । संप्रदायप्रवर्तकानां च गार्हस्थ्यस्याऽऽभासमात्रत्वात्तत्त्वानुसंधानेन मुहुर्मुहुर्बाधात् । “यस्य मे चास्ति सर्वत्र यस्य मे नास्ति कञ्चन। मिथिलायां प्रदीप्तायां न मे कञ्चन दह्यते॥” इत्युद्गारदर्शनात्कर्माभासेन न समुच्चयः स्यात्तत्र च विधिर्न दृश्यत इति भावः ।

साधितं व्याख्येयत्वमुपसंहरति –

एवमिति ।

ग्रन्थे कथमुपनिषच्छब्दप्रयोग इति शङ्क्यायामुपनिषच्छब्दवाच्यविद्यार्थत्वाल्लाक्षणिक इति दर्शयितुं विद्याया उपनिषच्छब्दार्थत्वमाह –

य इमामिति ।

आत्मभावेनेति । प्रेमास्पदतयेत्यर्थः । अनर्थंपूगं क्लेशसमूहं निशातयति शिथिलीकरोत्यपरिपक्वज्ञानाद्द्वित्रैर्जन्मभिर्मोक्षसंभवादित्यर्थः।
“ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥”वायुपुराणम्(वायुपुराणम् १।१।३)

इति स्मरणाद्धर्मज्ञानवैराग्यैश्वर्यैः सर्वानन्यानतिक्रम्य वर्तत इति परिवृढत्वं सिद्धमित्यर्थः।
“योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एष स्वयमुब्दभौ ॥”(मनु. १-७)

“स्वयमुद्भूतः शुक्रशोणितसंयोगमन्तरेणाऽऽदिर्भूतः” इति स्मृतेः। स्वातन्त्र्यं गम्यते इत्यर्थः। वाक्योत्थबुद्धिवृत्त्यभिव्यक्तं ब्रह्मैव ब्रह्मविद्या ।

तच्च ब्रह्म सर्वाभिव्यञ्जकम्। ततः सर्वविद्यानां व्यञ्जकतयाऽऽश्रीयत इति सर्वविद्याश्रयाऽथवा सर्वविद्यानां प्रतिष्ठा परिसमाप्तिर्भवति यस्याममुत्पन्नायां ज्ञातव्याभावात्सा सर्वविद्याप्रतिष्ठेत्याह –

सर्वविद्यावेद्यं वेति ॥१.१.१॥१.१.२॥