मुण्डकोपनिषद्भाष्यम्
प्रथमं मुण्डकम्प्रथमः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥
शौनकः शुनकस्यापत्यं महाशालः महागृहस्थः अङ्गिरसं भारद्वाजशिष्यमाचार्यं विधिवत् यथाशास्त्रमित्येतत् ; उपसन्नः उपगतः सन् पप्रच्छ पृष्टवान् । शौनकाङ्गिरसोः सम्बन्धादर्वाग्विधिवद्विशेषणाभावादुपसदनविधेः पूर्वेषामनियम इति गम्यते । मर्यादाकरणार्थं विशेषणम् । मध्यदीपिकान्यायार्थं वा विशेषणम् , अस्मदादिष्वप्युपसदनविधेरिष्टत्वात् । किमित्याह — कस्मिन्नु भगवो विज्ञाते, नु इति वितर्के, भगवः हे भगवन् , सर्वं यदिदं विज्ञेयं विज्ञातं विशेषेण ज्ञातमवगतं भवतीति ‘एकस्मिन्विज्ञाते सर्वविद्भवति’ इति शिष्टप्रवादं श्रुतवाञ्शौनकः तद्विशेषं विज्ञातुकामः सन्कस्मिन्निति वितर्कयन्पप्रच्छ । अथवा, लोकसामान्यदृष्ट्या ज्ञात्वैव पप्रच्छ । सन्ति हि लोके सुवर्णादिशकलभेदाः सुवर्णत्वाद्येकत्वविज्ञानेन विज्ञायमाना लौकिकैः ; तथा किं न्वस्ति सर्वस्य जगद्भेदस्यैकं कारणम् यत्रैकस्मिन्विज्ञाते सर्वं विज्ञातं भवतीति । नन्वविदिते हि कस्मिन्निति प्रश्नोऽनुपपन्नः ; किमस्ति तदिति तदा प्रश्नो युक्तः ; सिद्धे ह्यस्तित्वे कस्मिन्निति स्यात् , यथा कस्मिन्निधेयमिति । न ; अक्षरबाहुल्यादायासभीरुत्वात्प्रश्नः सम्भवत्येव — किं न्वस्ति तद्यस्मिन्नेकस्मिन्विज्ञाते सर्ववित्स्यादिति ॥

प्रश्नबीजमाह –

एकस्मिन्निति ।

उपादानात्कार्यस्य पृथक्सत्त्वाभावादुपादाने ज्ञाते तत्कार्यं ततः पृथङनास्तीति ज्ञातं भवतीति सामान्यव्याप्तिस्तद्बलाद्वा पप्रच्छेत्याह –

अथवेति ।

प्रश्नाक्षराञ्जस्यमाक्षिप्य समाधत्ते –

नन्वविदिते हीत्यादिना ।

किमस्ति तदिति प्रयोगेऽक्षरबाहुल्येनाऽऽयासः स्यात्तद्भीरुतया कस्मिन्नित्यक्षराञ्जस्ये लाघवात्प्रश्न इत्यर्थः ॥१.१.३॥१.१.४॥