वक्ष्यमाणार्थमिति ।
वक्ष्यमाणस्याविद्या विवरणप्रकरणस्याऽरम्भार्थमुक्तपरविद्यासूत्रार्थोपसंहार इत्यर्थः ।
सामान्येनेति ।
समष्टिरूपेण मायाख्येनोपाधिनेत्यर्थः ।
विशेषेणेति ।
व्यष्टिरूपेणाविद्याख्येनोपाधिनाऽनन्तजीवभावमापन्नः स एव सर्वं स्वोपाधितत्संसृष्टं च वेत्तीत्यधिदैवमध्यात्मं च तत्त्वाभेदः सूत्रितः । स्रष्टृत्वं प्रजापतीनां तपसा प्रसिद्धम् । तद्वद्ब्रह्मणोऽपि स्रष्ट्रत्वे तपोनुष्ठानं वक्तव्यम् ।
ततः संसारित्वं प्रसज्येतेत्याशङ्क्याऽऽह –
यस्यज्ञानमयमिति ।
सत्त्वप्रधानमायाया ज्ञानाख्यो विकारस्तदुपाधिकं ज्ञानविकारं सृज्यमानसर्वपदार्थाभिज्ञत्वलक्षणं तपो न तु क्लेशरूपं प्रजापतीनामित्यर्थः ॥१.१.९॥