मुण्डकोपनिषद्भाष्यम्
प्रथमं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि ।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥
साङ्गा वेदा अपरा विद्योक्ता ‘ऋग्वेदो यजुर्वेदः’ (मु. उ. १ । १ । ५) इत्यादिना । ‘यत्तदद्रेश्यम्’ (मु. उ. १ । १ । ६) इत्यादिना ‘नामरूपमन्नं च जायते’ (मु. उ. १ । १ । ९) इत्यन्तेन ग्रन्थेनोक्तलक्षणमक्षरं यया विद्ययाधिगम्यत इति सा परा विद्या सविशेषणोक्ता । अतः परमनयोर्विद्ययोर्विषयौ विवेक्तव्यौ संसारमोक्षावित्युत्तरो ग्रन्थ आरभ्यते । तत्रापरविद्याविषयः कर्त्रादिसाधनक्रियाफलभेदरूपः संसारोऽनादिरनन्तो दुःखस्वरूपत्वाद्धातव्यः प्रत्येकं शरीरिभिः सामस्त्येन नदीस्रोतोवदविच्छेदरूपसम्बन्धः तदुपशमलक्षणो मोक्षः परविद्याविषयोऽनाद्यनन्तोऽजरोऽमरोऽमृतोऽभयः शुद्धः प्रसन्नः स्वात्मप्रतिष्ठालक्षणः परमानन्दोऽद्वय इति । पूर्वं तावदपरविद्याया विषयप्रदर्शनार्थमारम्भः । तद्दर्शने हि तन्निर्वेदोपपत्तिः । तथा च वक्ष्यति — ‘परीक्ष्य लोकान्कर्मचितान्’ (मु. उ. १ । २ । १२) इत्यादिना । न ह्यप्रदर्शिते परीक्षोपपद्यत इति तत्प्रदर्शयन्नाह — तदेतत् सत्यम् अवितथम् । किं तत् ? मन्त्रेषु ऋग्वेदाद्याख्येषु कर्माणि अग्निहोत्रादीनि मन्त्रैरेव प्रकाशितानि कवयः मेधाविनो वसिष्ठादयः यानि अपश्यन् दृष्टवन्तः । यत्तदेतत्सत्यमेकान्तपुरुषार्थसाधनत्वात् , तानि च वेदविहितानि ऋषिदृष्टानि कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्राध्वर्यवौद्गात्रप्रकारायामधिकरणभूतायां बहुधा बहुप्रकारं सन्ततानि सम्प्रवृत्तानि कर्मिभिः क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि ; अतो यूयं तानि आचरथ निर्वर्तयत नियतं नित्यं सत्यकामा यथाभूतकर्मफलकामाः सन्तः । एषः वः युष्माकं पन्थाः मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणः लोके फलनिमित्तं लोक्यते दृश्यते भुज्यत इति कर्मफलं लोक उच्यते । तदर्थं तत्प्राप्तये एष मार्ग इत्यर्थः । यान्येतान्यग्निहोत्रादीनि त्रय्यां विहितानि कर्माणि, तान्येष पन्था अवश्यफलप्राप्तिसाधनमित्यर्थः ॥

अनादिरुपादानरूपेणानन्तो ब्रह्मज्ञानात्प्रागन्तासंभवात्प्रत्येकं शरीररिभिर्हातव्यो दुःरवरूपत्वादित्यनेन यदाहुरेकजीववादिन एकं चैतन्यमेकयैवाविद्यया बद्धं संसरति । तदेव कदाचिन्मुच्यते नास्मदादीनां बन्धमाक्षौ स्त इति तदपास्तं भवति । श्रुतिबहिष्कृतत्वात् । सुषुप्तेऽपि क्रियाकारकफलभेदस्य प्रहाणं भवति । बुद्धिपूर्वकप्रहाणस्य ततो विशेषमाह –

सामस्त्येनेति ।

स्वोपाध्यविद्याकार्यस्याविद्याप्रहाणेऽऽत्यन्तिकप्रहाणं विद्याफलमित्यर्थः । अमरोऽपक्षयरहितः । अमृतो नाशरहित इत्यर्थः ।

अपरविद्यायाः परविद्यायाश्च विषयौ प्रदर्श्य पूर्वमपरविद्याया विषयप्रदर्शने श्रुतेरभिप्रायमाह –

पूर्वं तावदिति ।

यदिष्टसाधनतयाऽनिष्टसाधनतया वा वेदेन बोध्यते कर्म तस्यासति प्रतिबन्धे तत्साधनत्वाव्यभिचारः सत्यत्वं न स्वरूपाबाध्यत्वं प्लवा ह्येत इत्यादिना निन्दितत्वात्स्वरूपबाध्यत्वेऽपि चार्थक्रियासामर्थ्यं स्वप्नकामिन्यामिव घटत इत्यभिप्रेत्याऽऽह –

तदेतत्सत्यमिति ।

ऋग्वेदविहितः पदार्थो हौत्रम् । यजुर्वेदविहित आध्वर्यवम् । सामवेदविहित औद्गात्रम् । तद्रूपायां त्रेतायामित्यर्थः । सत्यकामा मोक्षकामा इति समुच्चयाभिप्रायेण व्याख्यानमयुक्तम् । ’एष वः पन्थाः सुकृतस्य लोके’ इति स्वर्ग्यफलसाधनत्वविषयवाक्यशेषविरोधादिति ॥१.२.१॥