मुण्डकोपनिषद्भाष्यम्
प्रथमं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २ ॥
तत्राग्निहोत्रमेव तावत्प्रथमं प्रदर्शनार्थमुच्यते, सर्वकर्मणां प्राथम्यात् । तत्कथम् ? यदैव इन्धनैरभ्याहितैः सम्यगिद्धे समिद्धे दीप्ते हव्यवाहने लेलायते चलति अर्चिः ; तदा तस्मिन्काले लेलायमाने चलत्यर्चिषि आज्यभागौ आज्यभागयोः अन्तरेण मध्ये आवापस्थाने आहुतीः प्रतिपादयेत् प्रक्षिपेत् देवतामुद्दिश्य । अनेकाहःप्रयोगापेक्षया आहुतीरिति बहुवचनम् । एष सम्यगाहुतिप्रक्षेपादिलक्षणः कर्ममार्गो लोकप्राप्तये पन्थाः । तस्य च सम्यक्करणं दुष्करम् ; विपत्तयस्त्वनेका भवन्ति ॥

आहवनीयस्य दाक्षणोत्तरपार्श्वयोराज्यभागाविज्येते अग्नये स्वाहा सोमाय (स्याहेति)स्वाहेति दर्शपूर्णरमासे । तयोर्मध्येऽन्ये यागा अनुष्ठीयन्ते । तन्मध्यमावापस्थानमुच्यते । अगीग्नहोत्राहुत्योर्द्वित्वं प्रासिद्धम् । सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः । अग्नये स्वाहा प्रजापतये स्वाहेति सायम् । तत्कथमग्निहोत्रं प्रक्रम्याऽऽहुतीरिति बहुवचनं तत्राऽऽह –

अनेकाहेति ।

अनेकेष्वहःसु प्रयोगानुष्ठानानि तदपेक्षयेत्यर्थः ॥१.२.२॥