मुण्डकोपनिषद्भाष्यम्
द्वितीयं मुण्डकम्द्वितीयः खण्डः
आनन्दगिरिटीका (मुण्डक)
 
यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २ ॥
किञ्च, यत् अर्चिमत् दीप्तिमत् ; तद्दीप्त्या ह्यादित्यादि दीप्यत इति दीप्तिमद्ब्रह्म । किञ्च, यत् अणुभ्यः श्यामाकादिभ्योऽपि अणु च सूक्ष्मम् । च - शब्दात्स्थूलेभ्योऽप्यतिशयेन स्थूलं पृथिव्यादिभ्यः । यस्मिन् लोकाः भूरादयः निहिताः स्थिताः, ये च लोकिनः लोकनिवासिनः मनुष्यादयः ; चैतन्याश्रया हि सर्वे प्रसिद्धाः ; तदेतत् सर्वाश्रयं अक्षरम् ब्रह्म स प्राणः तदु वाङ्मनः वाक्च मनश्च सर्वाणि च करणानि तदु अन्तश्चैतन्यम् ; चैतन्याश्रयो हि प्राणेन्द्रियादिसर्वसङ्घातः, ‘प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १०) इति श्रुत्यन्तरात् । यत्प्राणादीनामन्तश्चैतन्यमक्षरं तदेतत् सत्यम् अवितथम् , अतः अमृतम् अविनाशि तत् वेद्धव्यं मनसा ताडयितव्यम् । तस्मिन्मनसः समाधानं कर्तव्यमित्यर्थः । यस्मादेवं हे सोम्य, विद्धि अक्षरे चेतः समाधत्स्व ॥

घटादिवदादित्यादेर्जडत्वेपि यद्दीप्तिमत्त्वं वैचित्र्यं तदनुपपत्त्याऽपि तत्कारणं संभावनीयमित्याह –

किञ्च यदर्चिमदिति ।

अर्चिमत्त्वादादित्यादिवदिन्द्रियग्राह्यत्वं प्राप्तं निषेधयति –

यदणुभ्य इति ।

परमाणुपरिमाणत्वं तर्हि स्यादति नाऽऽशङ्कनीयमित्याह –

चशब्दादिति ।

स्थूलत्वात्तर्ह्यन्याधारं स्यादिति नाऽऽशङ्कनीयमित्याह –

यस्मिल्ँलोका इति ।

प्राणादिप्रवृत्तिश्चेतनाधिष्ठाननिबन्धना जडप्रवृत्तित्वाद्रथादिप्रवृत्तिवच्चिद्भेदे च प्रमाणाभावादेकचैतन्यमात्रमस्मीति विचारयेदत्याह –

तदेतत्सर्वाश्रयमिति ।

प्राणाद्यधिष्ठानत्वात्प्राणादिलक्ष्य आत्मा द्रष्टव्यः ॥२.२.२॥