आथर्वणे ब्रह्मा देवानामित्यादिमन्त्रैरेवाऽऽत्मतत्त्वस्य निर्णीतत्वात्तत्रैव ब्राह्मणेन तदभिधानं पुनरुक्तमित्याशङ्क्य तस्यैवेह विस्तरेण प्राणोपासनादिसाधनसाहित्येनाभिधानान्न पौनरुक्त्यमिति वदन्ब्राह्मणमवतारयति –
मन्त्रेति ।
विस्तरेति ।
मन्त्रे हि द्वे विद्ये वेदितव्ये परा चिवापरा चेत्युक्त्वा तत्रापरर्ग्वेदाद्यभिधेयेत्युक्तम् । सा च विद्या कर्मरूपोपासनारूपा च । तत्र द्वितीया द्वितीयतृतीयप्रश्नाभ्यां विव्रीयते । आद्या कर्मकाण्डे विवृतेति नेह विव्रीयते । उभयोः फलं तु ततो वैराग्यार्थं प्रथमप्रश्ने स्पष्टीक्रियते । परविद्या चाथ परा यया तदक्षरमधिगम्यत इत्युपक्रम्य कृत्स्नेन मुण्डकेन प्रतिपादिता । तत्रापि यथा सुदीप्तादित्यादिमन्त्रद्वयोक्तार्थस्य विस्तरार्थं चतुर्थः प्रश्नः । प्रणवो धनुरित्यत्रोक्तप्रणवोपासनविवरणार्थं पञ्चमः प्रश्नः । एतस्माज्जायते प्राण इत्यादिना शेषेण मुण्डकेनोक्तस्यार्थस्य स्पष्टीकरणार्थः षष्ठः प्रश्न इतीदं ब्राह्मणं तद्विस्तरानुवादीत्यर्थः । अत एव विषयप्रयोजनादिकं तत्रैवोक्तमिति नेह पुनरुच्यत इति बोध्यम् ।
आख्यायिकाया ब्रह्मचर्यतपआदिसाधनविधानं पुराकल्पस्वरूपेण प्रयोजनान्तरं चास्तीत्याह –
ब्रह्मचर्यादिसाधनेति ।