सौर्यायणीति ।
सौर्यायणिरिति वक्तव्ये दैर्घ्यं छान्दसमित्यर्थः ।
युवप्रत्यय इति ।
कत्य(त)स्य युवापत्ये विवक्षिते फक्प्रत्यये तस्याऽऽयन्नादेशे च कात्यायन इति सिध्यतीत्यर्थः ।
ब्रह्मपराणां पुनर्ब्रह्मान्वेषणमयुक्तमित्यत आह –
अपरं ब्रह्मेति ।
नन्वपरब्रह्मान्वेषणेनैव पुरुषार्थसिद्धेः किं परब्रह्मान्वेषणेनेत्याशङ्कते ।
किं तदिति ।
तस्य कोऽतिशय इत्यर्थः ।
तस्यानित्यत्वेन तत्प्राप्तेरप्यनित्यहेतुत्वेनापुरुषार्थत्वात्परस्यैव नित्यत्वात्तत्प्राप्तेस्तज्ज्ञानमात्रसाध्यत्वेनापि नित्यत्वाच्च तस्यैवान्वेषणीयत्वमिति परस्वरूपकथनेनाऽऽह –
यदिति ।
परब्रह्मान्वेषमाणानां कोऽतिशय इत्यत आह –
तत्प्राप्त्यर्थमिति ।
तत्प्राप्त्यर्थे तदधिगमाय तदन्वेषणं कुर्वन्तो यथाकामं यतिष्याम इत्येवमभिप्रायेणेत्यन्वयः ।
समिदिति ।
समिद्ग्रहणं यथायोग्यं दन्तकाष्ठाद्युपहारोपलक्षणार्थम् ॥ १ ॥