रयिप्राणौ श्रुतिः स्वयमेव व्याचष्ट इत्याह –
तत्राऽऽदित्य इति ।
प्रजापतेरेव संवत्सरादिप्रजापर्यन्तस्रष्टृत्वं वक्तुं रयिप्राणयोः संवत्सरस्रष्ट्रोः प्रजापत्युपादानत्वात्प्रजापत्यात्मत्वमाह –
तदेतदेकमिति ।
कथमेकस्यात्ताऽन्नं चेति भेद इत्याशङ्क्य तस्यैव गुणभावविवक्षयाऽऽन्नत्वं प्राधान्यविवक्षया चात्तृत्वमिति भेद इत्याह –
गुणेति ।
रयिप्राणयोः कथं प्रजापत्यात्मत्वमिति शङ्कते ।
कथमिति ।
तत्र रयेः सर्वात्मकत्वात्प्रजापतित्वमित्याह –
रयिरिति ।
अमूर्तस्यापि वाय्वादेः केनचिदद्यमानत्वाद्रयित्वमित्यर्थः । ननु मूर्तामूर्तयोरत्रन्नयोरुभयोरपि रयित्वेऽन्नमेव रयिरिति कथमुक्तमित्याशङ्क्य मूर्तामूर्तत्वविभागमकृत्वा सर्वस्य गुणभावमात्रविवक्षया सर्वं रयिरित्युच्यते ।
यदोभे विभज्य गुणप्रधानभावेन विवक्ष्येते तदाऽमूर्तेन प्राणेन मूर्तस्याद्यमानत्वान्मूर्तस्यैव रयित्वमित्याह –
तस्मादिति ॥ ५ ॥