प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥
तस्मै एवं पृष्टवते स ह उवाच तदपाकरणायाह — प्रजाकामः प्रजाः आत्मनः सिसृक्षुः वै, प्रजापतिः सर्वात्मा सन् जगत्स्रक्ष्यामीत्येवं विज्ञानवान्यथोक्तकारी तद्भावभावितः कल्पादौ निर्वृत्तो हिरण्यगर्भः, सृज्यमानानां प्रजानां स्थावरजङ्गमानां पतिः सन् , जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयं तपः, अन्वालोचयत् अतप्यत । अथ तु सः एवं तपः तप्त्वा श्रौतं ज्ञानमन्वालोच्य, सृष्टिसाधनभूतं मिथुनम् उत्पादयते मिथुनं द्वन्द्वमुत्पादितवान् रयिं च सोममन्नं प्राणं च अग्निमत्तारम् इत्येतौ अग्नीषोमौ अत्रन्नभूतौ मे मम बहुधा अनेकधा प्रजाः करिष्यतः इति एवं सञ्चिन्त्य अण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसावकल्पयत् ॥

तस्मै स होवाचेति प्रतिज्ञातं विशेषतो दर्शयति –

तदपाकरणायेति ।

आद्यस्य सन्नित्यस्य प्रजाकामः सन्नित्यन्वयः ।

यथोक्तकारीति ।

ज्ञानकर्मसमुच्चयकारीत्यर्थः ।

तद्भावभावित इति ।

प्रजापतिरहं सर्वात्मेत्युपासनकालीनप्रजापतिभावनायुक्त इत्यर्थः । पूर्वकल्पीयतद्भावभावित एतत्कल्पादौ हिरण्यगर्भात्मना निर्वृतः प्रजापतिः सन्पश्चात्प्रजाकामः संस्तपो जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयमतप्यतान्वालोचयच्चिन्तादिना तत्संस्कारमुद्बोध्य ज्ञानमुत्पादितवानित्यन्वयः ।

तत्र प्रथममादित्यचन्द्रोत्पादनेन तद्भावमापद्य पश्चाच्चन्द्रादित्यसाध्यसंवत्सरभावमापद्यैवमेव तदवयवायनद्वयमासपक्षाहोरात्रभावमापद्य ततस्तत्साध्यव्रीह्याद्यन्नभावं रेतोभावं चाऽऽपद्य तेन रेतसा प्रजाः सृजेयमित्येवं निश्चित्य प्रथमं रयिप्राणशब्दितचन्द्रसूर्यद्वन्द्वमुत्पादितवानित्याह –

स एवमिति ।

रयिशब्देन धनवाचिना भोज्यजातं लक्षयित्वा भोज्यस्य सोमकिरणामृतयुक्तत्वात्तद्द्वारा सोमो लक्ष्यत इत्याह –

रयिं चेति ।

एवं प्राणशब्देनापि । “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥”(भ. गी. १५। १४) इति स्मृतेरग्नेः प्राणसम्बन्धादग्निर्भोक्ता लक्ष्यत इत्याह –

प्राणं चेति ।

अग्नीषोमयोरण्डान्तर्गतत्वेनाण्डोत्पत्त्यनन्तरमुत्पत्तिरित्याशयेनाऽऽह –

अण्डोत्पत्तीति ।

उद्यन्तं वावाऽऽदित्यमग्निरनुसमारोहतीति श्रुतेः सूर्याग्न्योरेकत्वमभिप्रेत्याग्निं सूर्यपदेनाऽऽह –

सूर्यचन्द्रमसाविति॥ ४ ॥