प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३ ॥
अथ संवत्सरादूर्ध्वं कबन्धी कात्यायनः उपेत्य उपगम्य पप्रच्छ पृष्टवान् — हे भगवन् , कुतः कस्मात् ह वै इमाः ब्राह्मणाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते इति । अपरविद्याकर्मणोः समुच्चितयोर्यत्कार्यं या गतिस्तद्वक्तव्यमिति तदर्थोऽयं प्रश्नः ॥

परं ब्रह्मान्वेषमाणा इत्युपक्रान्तेऽस्मिन्ब्रह्मप्रकरणे प्रजापतिकर्तृकप्रजासृष्टिविषयप्रश्नप्रत्युक्त्योरसङ्गतिमाशङ्क्य प्रश्नप्रत्युक्तिरूपायाः श्रुतेस्तात्पर्यमाह –

अपरविद्येति ।

तेषामसौ विरजो ब्रह्मलोक इति समुच्चितकार्यस्य ब्रह्मलोकस्याथोत्तरेणेति तद्गतेर्देवयानमार्गस्य चेह वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं केवलकर्मणां चेत्यपि द्रष्टव्यम् । केवलकर्मकार्यस्यापि चन्द्रलोकस्य तद्गतेः पितृयाणस्य च ’ तेषामेवैष ब्रह्मलोकः ’ ’प्रजाकामा दक्षिणं प्रतिपद्यन्ते ’ इति वक्ष्यमाणत्वादिति । यद्यपीदमपि परब्रह्मजिज्ञासावसरेऽसङ्गतमेव तथाऽपि केवलकर्मकार्यात्समुच्चितकर्मकार्याच्च विरक्तस्यैव तत्राधिकार इति ततो वैराग्यार्थमिदमुच्यते । यद्यपि मुखतः सृष्टिः प्रतीयते तथाऽपि तदुक्तौ प्रयोजनाभावात्सृष्ट्युक्तिव्याजेन परविद्याफलमेवात्रोच्यत इति भावः । प्रश्न इति प्रतिवचनं चेत्यपि द्रष्टव्यं ताभ्यामेव तदुक्तेरिति ॥ ३ ॥