प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥
तान् एवमुपगतान् सः ह किल ऋषिः उवाच भूयः पुनरेव — यद्यपि यूयं पूर्वं तपस्विन एव, तथापीह तपसा इन्द्रियसंयमेन विशेषतो ब्रह्मचर्येण श्रद्धया च आस्तिक्यबुद्ध्या आदरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग्गुरुशुश्रूषापराः सन्तो वत्स्यथ । ततः यथाकामं यो यस्य कामस्तमनतिक्रम्य यद्विषये यस्य जिज्ञासा तद्विषयान् प्रश्नान् पृच्छत । यदि तद्युष्मत्पृष्टं विज्ञास्यामः । अनुद्धतत्वप्रदर्शनार्थो यदि - शब्दो नाज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते सर्वं ह वो वः पृष्टार्थं वक्ष्याम इति ॥

तथाऽपीत्यस्य तपसेत्यतः पूर्वमन्वयः । विशेषत इत्यस्य पूर्वत्राप्यन्वयः । निष्कृष्टमर्थमाह –

यद्विषय इति ।

अज्ञानाद्यर्थत्वाभावे हेतुमाह –

प्रश्नेति ।

अत्रेतिशब्दोऽध्याहार्यः । सर्वप्रश्नानां निर्णयादज्ञानाद्यसम्भवादित्यर्थः ॥ २ ॥