प्रश्नोपनिषद्भाष्यम्
प्रथमः प्रश्नः
आनन्दगिरिटीका (प्रश्न)
 
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
सुकेशा च नामतः, भरद्वाजस्यापत्यं भारद्वाजः । शैब्यश्च शिबेरपत्यं शैब्यः, सत्यकामो नामतः । सौर्यायणी सूर्यस्यापत्यं सौर्यः, तस्यापत्यं सौर्यायणिः ; छान्दसं सौर्यायणीति ; गार्ग्यः गर्गगोत्रोत्पन्नः । कौसल्यश्च नामतः, अश्वलस्यापत्यमाश्वलायनः । भार्गवः भृगोर्गोत्रापत्यं भार्गवः, वैदर्भिः विदर्भेषु भवः । कबन्धी नामतः, कत्यस्यापत्यं कात्यायनः ; विद्यमानः प्रपितामहो यस्य सः ; युवप्रत्ययः । ते ह एते ब्रह्मपराः अपरं ब्रह्म परत्वेन गताः, तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः, परं ब्रह्म अन्वेषमाणाः किं तत् यन्नित्यं विज्ञेयमिति तत्प्राप्त्यर्थं यथाकामं यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तः, तदधिगमाय एष ह वै तत्सर्वं वक्ष्यतीति आचार्यमुपजग्मुः । कथम् ? ते ह समित्पाणयः समिद्भारगृहीतहस्ताः सन्तः, भगवन्तं पूजावन्तं पिप्पलादमाचार्यम् उपसन्नाः उपजग्मुः ॥

आथर्वणे ब्रह्मा देवानामित्यादिमन्त्रैरेवाऽऽत्मतत्त्वस्य निर्णीतत्वात्तत्रैव ब्राह्मणेन तदभिधानं पुनरुक्तमित्याशङ्क्य तस्यैवेह विस्तरेण प्राणोपासनादिसाधनसाहित्येनाभिधानान्न पौनरुक्त्यमिति वदन्ब्राह्मणमवतारयति –

मन्त्रेति ।

विस्तरेति ।

मन्त्रे हि द्वे विद्ये वेदितव्ये परा चिवापरा चेत्युक्त्वा तत्रापरर्ग्वेदाद्यभिधेयेत्युक्तम् । सा च विद्या कर्मरूपोपासनारूपा च । तत्र द्वितीया द्वितीयतृतीयप्रश्नाभ्यां विव्रीयते । आद्या कर्मकाण्डे विवृतेति नेह विव्रीयते । उभयोः फलं तु ततो वैराग्यार्थं प्रथमप्रश्ने स्पष्टीक्रियते । परविद्या चाथ परा यया तदक्षरमधिगम्यत इत्युपक्रम्य कृत्स्नेन मुण्डकेन प्रतिपादिता । तत्रापि यथा सुदीप्तादित्यादिमन्त्रद्वयोक्तार्थस्य विस्तरार्थं चतुर्थः प्रश्नः । प्रणवो धनुरित्यत्रोक्तप्रणवोपासनविवरणार्थं पञ्चमः प्रश्नः । एतस्माज्जायते प्राण इत्यादिना शेषेण मुण्डकेनोक्तस्यार्थस्य स्पष्टीकरणार्थः षष्ठः प्रश्न इतीदं ब्राह्मणं तद्विस्तरानुवादीत्यर्थः । अत एव विषयप्रयोजनादिकं तत्रैवोक्तमिति नेह पुनरुच्यत इति बोध्यम् ।

आख्यायिकाया ब्रह्मचर्यतपआदिसाधनविधानं पुराकल्पस्वरूपेण प्रयोजनान्तरं चास्तीत्याह –

ब्रह्मचर्यादिसाधनेति ।

सौर्यायणीति ।

सौर्यायणिरिति वक्तव्ये दैर्घ्यं छान्दसमित्यर्थः ।

युवप्रत्यय इति ।

कत्य(त)स्य युवापत्ये विवक्षिते फक्प्रत्यये तस्याऽऽयन्नादेशे च कात्यायन इति सिध्यतीत्यर्थः ।

ब्रह्मपराणां पुनर्ब्रह्मान्वेषणमयुक्तमित्यत आह –

अपरं ब्रह्मेति ।

नन्वपरब्रह्मान्वेषणेनैव पुरुषार्थसिद्धेः किं परब्रह्मान्वेषणेनेत्याशङ्कते ।

किं तदिति ।

तस्य कोऽतिशय इत्यर्थः ।

तस्यानित्यत्वेन तत्प्राप्तेरप्यनित्यहेतुत्वेनापुरुषार्थत्वात्परस्यैव नित्यत्वात्तत्प्राप्तेस्तज्ज्ञानमात्रसाध्यत्वेनापि नित्यत्वाच्च तस्यैवान्वेषणीयत्वमिति परस्वरूपकथनेनाऽऽह –

यदिति ।

परब्रह्मान्वेषमाणानां कोऽतिशय इत्यत आह –

तत्प्राप्त्यर्थमिति ।

तत्प्राप्त्यर्थे तदधिगमाय तदन्वेषणं कुर्वन्तो यथाकामं यतिष्याम इत्येवमभिप्रायेणेत्यन्वयः ।

समिदिति ।

समिद्ग्रहणं यथायोग्यं दन्तकाष्ठाद्युपहारोपलक्षणार्थम् ॥ १ ॥