रयिशब्दितस्यान्नस्य प्रजापतित्वार्थं सर्वात्मत्वमुक्त्वा प्राणस्यापि तदर्थमेव सर्वात्मत्वमुच्यतेऽथाऽऽदित्य इतिवाक्येनेत्याह –
तथेत्यादिना ।
यच्चाऽद्यं तदपि प्राणोऽतोऽत्ता प्राणोऽपि सर्वमेवेति सर्वात्मक इत्यर्थः ।
स्वप्रकाशेनेति ।
स्वकीयप्रकाशेन स्वप्रभयेत्यर्थः ।
अन्तर्भूतानिति ।
यद्यपि प्राणस्यात्तृत्वमुक्तं तथाऽपि रयिर्वा एतत्सर्वमित्यत्रामूर्तस्य प्राणस्यापि गुणभावविवक्षयाऽन्नत्वमुक्तमिति तथोक्तम् ।
स्वात्माभावभासरूपेष्विति ।
स्वात्मप्रभारूपेषु रश्मिष्वित्यर्थः ।
व्याप्तत्वादिति ।
सम्बद्धत्वादित्यर्थः ॥ ६ ॥