स मिथुनमुत्पादयत इत्युपक्रान्तं मिथुनमुपसंहरति –
यश्चासाविति ।
यश्चासौ चन्द्रमा यश्चामूर्तः प्राणस्तदेकं मिथुनं सर्वं सर्वात्मकमित्यन्वयः ।
एतौ मे बहुधा प्रजाः करिष्यत इत्युक्तं तत्केन प्रकारेणेति पृच्छति –
कथमिति ।
रयिप्राणयोः संवत्सरादिद्वारा प्रजास्रष्टृत्वमित्याह –
उच्यत इति ।
तदेव मिथुनमेव संवत्सरः कालः ।
स च प्रजापतिः प्रजापत्यात्मकमिथुननिर्वर्त्यत्वादित्याह –
तन्निर्वर्त्यत्वादिति ।
तदुपपादयति –
चन्द्रेति ।
चन्द्रनिर्वर्त्यास्तिथय आदित्यनिर्वर्त्यान्यहोत्राणीति विभागः ।
तन्निर्वर्त्यत्वेऽपि कालस्य कथं तदात्मकतेत्याशङ्क्य कार्यकारणयोरभेदादित्याह –
तदनन्यत्वादिति ।
न केवलं तिथ्यादिद्वारा चन्द्रादिनिर्वर्त्यत्वं संवत्सरस्य किं त्वयनद्वयद्वाराऽपीति वक्तुं तस्यायने इत्यादिवाक्यं तत्प्रश्नपूर्वकं व्याचष्टे –
तत्कथमिति ।
चन्द्रादित्यनिर्वर्त्यत्वं कुतो हेत्वन्तरादित्यर्थः । केवलकर्मिणां लोकान्विदधद्दक्षिणेन याति । ज्ञानयुक्तकर्मवतां लोकान्विदधदुत्तरेण यातीत्यन्वयः । सवितेत्युपलक्षणं चन्द्रस्यापि । ज्येष्ठादिर्दक्षिणायनं मार्गशीर्षादिरुत्तरायणमिति श्रुतिषु प्रसिद्धेः ततश्च कर्मिणां लोकान्विधातुं तयोर्दक्षिणोत्तराभ्यां मार्गाभ्यां गमनात्तन्निमित्तत्वाच्चायनद्वयप्रसिद्धेस्तन्निर्वर्त्यत्वं तयोरयनयोरिति तद्द्वारा संवत्सरस्यापि तन्निर्वर्त्यत्वमित्यर्थः ।
चन्द्रादित्ययोः कथं लोकविधायकत्वमिति पृच्छति –
कथमिति ।
चन्द्रादित्यनिर्वर्त्यदक्षिणोत्तरायणद्वारा लोकप्राप्तेः प्राप्यस्य लोकस्यापि चन्द्रादित्यात्मकत्वाच्च तयोस्तद्विधायकत्वमिति तद्ये ह वा इत्यादिवाक्येन परिहरति –
तत्तत्रेति ।
इष्टं चेति ।
अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ इति तयोर्भेदः ।
कृतमित्युपासत इति कृतशब्दोपरितनमितिशब्दमिष्टापूर्ते इति पूर्तशब्दोपर्याकृष्याऽऽदिशब्दपर्यायतया व्याचष्टे –
इत्यादीति ।
दत्तमादिशब्दार्थः । कृतमेवोपासते कार्यमेवानुतिष्ठन्तीत्यर्थः । इदं च विशेषणं पुनरावृत्तौ हेतुतयोक्तम् ।
कृतरूपेष्ट्यादिजन्यत्वाच्चन्द्रस्यापि कृतत्वेनानित्यत्वात्पुनरावृत्तिरित्याह –
कृतरूपत्वादिति ।
पुनरावृत्तौ मन्त्रवाक्यं प्रमाणयति –
इमं लोकमिति ॥ ९ ॥