प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः ॥ १० ॥
अथ उत्तरेण अयनेन प्रजापतेरंशं प्राणमत्तारम् आदित्यम् अभिजयन्ते । केन ? तपसा इन्द्रियजयेन । विशेषतो ब्रह्मचर्येण श्रद्धया विद्यया च प्रजापत्यात्मविषयया आत्मानं प्राणं सूर्यं जगतः तस्थुषश्च अन्विष्य अहमस्मीति विदित्वा आदित्यम् अभिजयन्ते अभिप्राप्नुवन्ति । एतद्वै आयतनं सर्वप्राणानां सामान्यमायतनम् आश्रयः एतत् अमृतम् अविनाशि अभयम् अत एव भयवर्जितम् न चन्द्रवत्क्षयवृद्धिभयवत् ; एतत् परायणं परा गतिर्विद्यावतां कर्मिणां च ज्ञानवताम् एतस्मान्न पुनरावर्तन्ते यथेतरे केवलकर्मिण इति यस्मात् एषः अविदुषां निरोधः, आदित्याद्धि निरुद्धा अविद्वांसः । नैते संवत्सरमादित्यमात्मानं प्राणमभिप्राप्नुवन्ति । स हि संवत्सरः कालात्मा अविदुषां निरोधः । तत् तत्रास्मिन्नर्थे एषः श्लोकः मन्त्रः ॥

अथेति ।

मार्गान्तरारम्भार्थोऽथशब्दः ।

प्रजापत्यात्मविषयेति ।

तत्तादात्म्यविषययेत्यर्थः । आदित्यमभिजयन्त इति पूर्वमन्वयार्थमुक्तमिदानीं व्याख्यानार्थमिति द्रष्टव्यम् ।

सामान्यमिति ।

समष्टिरूपमित्यर्थः ।

विद्यावतामिति ।

कर्मानधिकारिणामत एव केवलोपासनवतामित्यर्थः ।

कर्मिणां च ज्ञानवतामिति ।

समुच्चयवतामित्यर्थः ।

ननु केवलकर्मिणामप्यादित्यप्राप्तावपुनरावृत्तिर्भवष्यतीत्याशङ्क्य तेषामादित्यप्राप्तिरेव नास्तीति वक्तुमित्येष इति वाक्यं व्याचष्टे –

इति यस्मादिति ।

तस्मात्तेषामादित्यप्राप्तिरनाशङ्क्येति शेषः ।

यद्वा तस्यायने इत्यारभ्येत्येष निरोध इत्यन्तं श्रुतिवाक्यमयनयो रयिप्राणत्वप्रतिपादनपरतया व्याख्येयम् । तथा हि । संवत्सरस्य रयिप्राणमिथुननिर्वर्त्यत्वे रयिप्राणरूपत्वं च वक्तव्यं तत्कथमिति पृच्छति –

तत्कथमिति ।

तदवयवयोरयनयोस्तद्रूपत्वं वक्तुं तयोः प्रथमं प्रसिद्धमाह –

तस्येति ।

प्रसिद्धिमेवाऽऽह –

याभ्यामिति ।

एवमपि कथं तयोस्तदात्मकत्वमित्याह –

कथमिति ।

दक्षिणायनस्य रयित्वं वक्तुं कर्मिणां रयिरूपचन्द्रनिर्वर्तकत्वमाह –

तत्तत्रेति ।

लोकमिति ।

सोमरूपं शरीरमित्यर्थः ।

तस्य कर्मकृतत्वं पुनरावृत्त्या साधयति –

कृतरूपत्वादिति ।

रयिरूपचन्द्रस्य दक्षिणायनद्वारा प्राप्यत्वात्तस्यायनस्य तदन्तर्भाव इति वक्तुं तस्य कर्मभिः प्राप्यत्वमाह –

यस्मादिति ।

एवं च तस्य रयित्वं सिद्धमित्याह –

एष इति ।

पितृयाणोपलक्षित इति ।

तत्प्राप्य इत्यर्थः । ततश्च तद्विशेषणस्यायनस्यापि रयित्वमित्यर्थः ।

इदानीमुत्तरायणस्य प्राणत्वमाह –

अथेति ।

प्राणरूपादित्यप्रापकत्वादुत्तरायणस्य तस्यापि प्राणत्वमिति संवत्सरस्य रयिप्राणमिथुनात्मकत्वमिति तत्कार्यत्वं युक्तमिति भावः ।

अस्य कर्मसाध्यचन्द्रवैलक्षण्यमाह –

एतद्वा इति ।

इतरत्सर्वं समानम् ।

अस्मिन्नर्थ इति ।

संवत्सरस्वरूप इत्यर्थः ॥ १० ॥